________________
४E
अलङ्कारकोस्तुभः ।
प्राग्वर्तिनी उपादानलक्षणपदे ययोस्ते । तेनोपादानलक्षणा लक्षणलक्षणा चेत्यर्थः। उपचारणामित्रत्वाच्छुड़े । पृथक्त्वेन वर्तमानयोहयो क्यारोप उपचारः। तत्र 'वेणुर्गायति', 'वीणा: अतिमनुकुवन्तीति, वेणादिभिः खसिद्धार्थ स्वस्ववादकानां परेषां श्रीकृष्ण ललितादौनामाक्षेपः कृत इत्युपादानलक्षणा। यत्र यत्राविनाभावोऽर्थापत्तिा तत्र तत्र नोपादानलक्षणा प्रयोजनरूढ़योरभावात् । यथा 'गौरनुवन्ध्य' इति श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते नतु शब्देनोच्यते, 'विशेष्य नाभिधा गच्छ्रेत् क्षीणशक्तिचिशेषणे' इति न्यायात् (व)। उक्तञ्च वाक्यपदीये-'गौः स्वरूपेण न गो प्यौंगोवाभिसम्बन्धात्तु गो' रिति। एवं क्रियतामित्यत्र कर्ता, कुबित्यत्र कम्म, प्रविश पिण्डों गृहं भक्षयेत्यादिष्वाक्षेपः एव । 'पोनो लक्षणा ज्ञेया। एतादृशे दिविधे एव लक्षण शुद्धे ज्ञेये। प्रागुपादानलक्षणे इत्यस्य याख्यामाह -प्राग्वर्तिनौति। दयोर क्यारोप इति-'गोर्बाहीक' इति स्थल उपचार इत्यर्थः। वेगरिति--वेणोः स्वातन्त्रण गानासम्भवाहेणुपदेन श्रीकृष्णा स्याक्षेपः कृतः । वीणा: गान शास्त्रोक्तां श्रुतिमनु कुर्वन्ति। यो ति-यत्र जातियत्योरविनाभावो याप्तिरूपसम्बन्धस्तत्र जात्या यक्तिराक्षिप्यते। 'पीनो देवदत्तो दिवा न भुक्तै'-अवाप्यर्थापत्तया रात्रिभोजित्व सिद्धिः। अतस्तत्र तत्र स्थले नोपादानलक्षणा। तत्र हेतुः-लक्षणावीजयोः प्रयोजनरूयोरभावात् । 'गो'पदस्य यत्तौ लक्षणायां न प्रयोजनं, न वा रूमिः। प्रयोजन विनैव सर्वत्र वृथा लाक्षणिकप्रयोगस्तु विशेवदर्शिनामनुचित इति वोध्यम् । एतदेवाहयथेति। श्रुत्युक्त गोपदार्थस्य गोत्वस्य मत्कतकं वन्धनं कथं स्यादिति पुरुषस्य परामश
(व) 'गौरनुवन्ध्य' इत्यत्रोपादानलक्षणेति मण्डनमिश्रादीनां मतं, तन्न विचारसह मिलपरियादेव दर्शितम्। 'गौरनुवन्धोऽजोऽग्निधोमौय' इत्यादि अतिबिवाहे गवानुवन्धनविधिबाक्यम् । अनुबन्धा आलभ्यो हन्तथ इति यावत् । एवं विधस्थले भिधयैव जात्याक्षिप्तयक्तिभाणमिति दर्शित मेवेतल्लौकिकवाक्यपने १८ कारिकाम्यवृत्तो, वैदिकवाक्ये चात्र मूलस्थप्रतीके-तेन यक्तिप्रतीतिप्रकारोऽतिरोहितार्थ एव । वाक्यपदीयवाक्यस्य स्फुटतरा याख्या पण्डितराजेन कृता। सेवान दयते-गौः सानादिमान् धम्मों खरूपेणाज्ञातगोत्वकेन धम्मिखरूपमात्रेण न गौड़ गोयवहारनिबाहकः, नाप्यगौ पि गोभिन्न इति व्यवहारस्य निबाहकः-तथा सति दूरादनभियतसंस्थानतया गोत्वाग्रहदशायां गवि गौरिति गोभिन्न इति वा व्यवहारः स्यात्. स्वरूपस्याविशेषात् घटे गौरिति गवि चागौरिति वा यवहार: स्यादिति भावः। गोत्वाभिसम्बन्धात् गोत्ववत्तया ज्ञानात् गौर्गोशब्दद्यवहार्य' इति ।