________________
४४
अलङ्कारकौस्तुभः । सारोपा सारोप्यमाण आरोपविषयोऽपि च । यत्र व्यक्ती
--२२ का यत्र लक्षणायामारोप्यमाण आरोपविषयश्च स्फुटौ, सा सारोपा । यथा 'अमृतं श्रीकृष्ण गुणश्रवणम्' । अत्रामृतमारोप्यमाणं गुणश्रवणमारोपविषयो दावेव स्फुटौ। ‘गोळहीक' इत्यन्ये (प) ।
-आदिनान्तन्निगौण चरमे सति ।
भवेत् साध्यवसाना सा-२३ का सा सारोपा साध्यवसाना भवेदादिनारोप्यमाणेन चरम आरोपविषयेऽन्तर्निगीणे सति । यथा 'अमृतमेवेद' मिति । आरोप्यमाणेनामृतेन गुणश्रवणमारोपविषयोऽन्तन्निगीर्णः। 'गोरेवाय'मित्येके ।
- भिदे हे विविध इमे । गौण्यो शुद्धे च सादृश्यात् सम्बन्धान्तरतोऽपि च ॥ २४ का
एतौ भेदौ सादृश्याद गौणो, सम्बन्धान्तरतः शुद्धौ भवत इत्यर्थः । प्रामाणि कानां वचनानासहिता प्रयोजनवतो लक्षणैव प्रयोजिका मार्थिका, न तु रूढ़िलक्षणा। एतन्मते रूलिक्षणा यर्थेति वोध्यम् ।
सा प्रयोजनवतो लक्षणा सारोपा। भक्तमत उदाहरणमटतं श्रीकृष्णगुणश्रवणं, अन्यमते तु 'गौवाहीक' इति ।
समस्थादिनेत्यस्य याख्या- पारोप्यमाणेनेत्यम्टतेनेत्यर्थः। चरम इत्यस्य याख्याआरोपविषय इति कणकयाश्रयण इत्यर्थः। अन्तर्निगीणे सतीति--नेदं कृष्णकथाश्रवणमपि त्वम्टन मेवेति वाक्य एवकारेण कृयाकथाश्रवणस्य निषेधे सतीत्यर्थः । सारोपास्थले त्वम्टतकृष्ण कथाश्रवणयोरभेदप्रतीत्या इयोरेव वाक्ये प्रवेशः। न तु साध्यवसानास्थल इवापरस्य निषेधः। अयं वाहीको न भवत्यपि तु गौरेवेत्दाहरणं भक्तभिन्नानां ज्ञेयम् ।
(प) अव भक्त कृते ग्रन्थे श्रीकृया नामकथाश्रय एवोदाहरणविन्यासः, तेनातदर्थमदाहरणमन्यत उपादीयत इत्यन्य इत्यभिधानम्। 'पञ्चानां सिन्धुघटानामन्तरं ये समाश्रिता:वाहोका नाम ते देशा न तन दिवसं वसेत् ॥” इति महाभारतोयकर्णपर्बस्थचोकादाहीको नाम वजनीयो देशविशेषस्तवत्यः पुरुषो वाहीक इति वा याखया। अनामत्वानाचारादि"साधम्मासम्बन्धः, अञ्चत्वानाचारादतिशयवोधनं लक्षणार्या प्रयोजनमिति स्थितिः ।