________________
अलङ्कारकौस्तुभः । अत्र हरिचरणं विष्णुपदमम्बरं तस्य रत्नं मणिः, द्युमणिः सूर्य इत्यर्थः । उज्जागरं प्रफुल्लता, प्रभोदकुसुमजन्मानि कमलानि, प्रसवाशुगः कामः, कूर्दनं केलि:-इति नेयार्थाः। इति वाक्यं नेयार्थम् ।
श्रीकृष्णस्य जनानां निरूपधि विहिता पदाम्भोजे। ____ शमयति सुक्कतं जनयति दुष्कृतमकान्तनिर्मला हि मतिः ॥ ४०
पत्र श्रीकृष्णस्य चरणाम्भोजनिहिता जनानां मतिर्दुष्कृतं शमयति मुक्कतं जनयतीति वक्तव्यं यथास्थितं क्लिष्टम्-इति वाक्य मेव क्लिष्टम् । . नवं वयस्तेऽधिकसौकुमायंता प्रियानुरागामृतसिन्धुरत्वता।
यथोत्तर वृद्धिमती गुणावलिः का ते समाना भवतीह राधे ! ॥ ४१ अत्र 'अधिकसौकुमार्यता' 'प्रियानुराग'त्यादि च विधेयम् । तच्च समासगतत्वेनाविमृष्टम् । तेन 'नवं वयस्ते सुकुमारताऽधिका प्रियस्य च प्रेम नवं नवं बयोति साधु ।
प्रसमासगतत्वेऽपि वाक्याविमृष्टविधेयांशत्व द्रष्टव्यम् । यथासौभाग्य मम पुनरेतदेव कृष्ण ! यत् कान्तागणगणने ममापि लेखः । पत्रायं यदधिक आदरस्त देतन्माहात्मय तव परमुत्तमं लपायाः ॥४२
पत्र 'एतदेवेति विध्यं, नत्वनुवाद्यम्-तत्तु पश्चाविशनाप्यनुवाद्यमेव जातम् । यथा वा-अपाङ्गभङ्गेन धति धुनोते कलेन वेणोश्च हियं लुनोते ।
कुलञ्च शीलञ्च पुनः पुनीते स्पर्शन योऽसौ पुरतः प्रियस्ते ॥४३ पत्र योऽसावित्येतयोः पदयोः पूर्वमनुवाद्यं हितोयन्तु विधेयं, सत्रिकष्टतमत्वेन द्वितीयमेवानुवादवत् प्रतिभासते । तेन 'स्पर्शन यस्ते सखि ! सोऽभ्युपैती'ति वाच्यम् । जन्यनिद्राया उत्थिता या युवतिस्तस्या सखशोभां हरति । समावगतत्वं विनाऽपि वाक्येऽविम्टएविधेयांशत्वं सम्भवतोत्याह-असमासेति। 'एतदेव मौभाग्य मम पुन रित्यन्वये एतदित्यस्य विवक्षितं विधेयत्व न सम्भवति, पञ्चानिदेशात् ; किन्त्वनुवादरूपत्वमेव जातं तस्य, अत: 'सौभाग्य'मित्यस्य विधेयस्याविटछविधेयांशत्वम् 'अनुवाद्यमनुक्के व न विधेयं प्रयोजयेदिति वचनात् (4)। अत्र विधेयान्तरमप्याह-स्पर्शविशेष्यप्रतिपत्ताविति कथञ्चित् समाधेयः। ते ते गुणा इति-एतदर्थ 'विलासचेटाः सखि केशिनाशिम (३३) इत्यादि पो 'अन्तन्ति मर्माणि गुणा घणा.इवे'ति वाक्यं तुलनीयम्।
(4) "किम्बि'न्यादि पाक मुद्रितपुस्तक एवोपलभ्यते ।