________________
३६४
बाब' इति पाठे साधु ? |
अलङ्कारकौस्तुभः ।
यथा; वा
अकृतं सुकृतं किञ्चिदतप्तञ्च तथा तपः ।
भवेयं येन ते नाथ ! करुणालवभाजनम् ॥२०
अत्र नञां प्राधान्यम्, तस्य समासेन गुणीभावः - एवं लवस्य विधेयत्वेन समासे गुणीभावः । तेन 'न कृतं सुकृतं किञ्चिन्न तप्तञ्च तथा तपः । मयि येन भवेद्याथ ! करुणाया लवोऽपि ते ॥' इति साधु । तथा - ' उदयति शशी श्रीराधाया न तन्मुखमण्डल' मित्यत्र ( ५म किरणे ४१ श्लोके ) नकारस्य प्राधान्याच्च गुणः । यत्र तु विशेषाभिधानं तत्र नञः समासोऽपि न दुष्यति । अमार्जित सुचिक्कणैरनभिषिक्तधोतोज्ज्वलेरभूषितमनोहरैरननुलिप्तसत् सौरभैः । तमालदल कोमले नयनकौमुदीकन्दले -
यथा-
रहो किमिदमङ्गकैः स्फुरति नीलमाद्यं महः ॥ २१
अत्र 'सुचिक्कणादिविशेषणाभिधानेऽमार्जितादिषु नञः समासो गुण एव, तद्रूपत्वमेव विधेयम् । नातो विधेयाविमर्श: यथा 'अपीती कादम्ब' मिति दण्डिनः (काव्यादर्शे २य परिच्छेदे २०० तमः श्लोकः) ।
यथा वा—अनासक्तः कर्म कुर्वन्रसक्तो विषयान् जुषन् । अप्रमत्तो भजन् कृष्ण' न स तैस्तैर्निषध्यते ॥ २२
घातो नीलोत्पले न सम्भवतीति लचणाऽभाववीजं ज्ञेयम् ( 3 ) । न कृतमिति-वोत्तरवाक्यगत 'यत्' पदेन 'तत्' - पदापेक्षा नास्तीति भावः । यत्र नन - तत्पुरुषे उत्तरपदप्राधान्यादिधेयस्य ननोऽप्राधान्यं दोषः । कदाचिदि रहजन्योन्मादेन चन्द्रादीन् श्रीराधाSऽद्यवयवत्वेन ज्ञात्वा दिघोर्षया धावन्तं श्रीकृष्णं प्रति मधुमङ्गल व्याह - उदद्यतोति । वोकोऽयं प्राग्वप्राख्यातः । ora नकारस्य प्राधान्यादु गुण एव नतु दोष इत्यर्थः । यत्र नसहित समस्तपदार्थस्य विशेषाभिधानमपेक्षितं भवतीति तत्र नया सह सभाऽपि न दोषः । ग्रहो आश्चर्यं किमिदं श्रीकृष्णास्वरूपमादां नीलं महः कोमलाङ्ग : करणैः स्फुरति । कथम्भतैः ? नेत्राणां प्रकाशिका या कौमुदी तस्याः कन्दले रङ्करखरूपैः तद्रूपत्वमिति
प्रयोजने च शक्यसम्बन्धापरिहारेणार्थकल्पनायां लक्षणाऽवकाशः - यत्राशक्यः सम्बन्धस्तत्र लक्ष्या निरवकाशेति नेयार्थत्वं शब्दस्य दोषः । तदाश्रयञ्च वाक्यदूषयमिति तत्परिहारो
(3) अव पाठो न कुवापि सम्यङिति प्रतिभाति । 'नीलोत्पले न सम्भवतीति लचणाबीज' मिति (ख) पुस्तके, 'नीलोत्पलेन सम्भवतीति ( ग ) पुस्तके, 'नीलोत्पल!न सम्भवतौति लचणाबीनं ज्ञेय' मिति (ङ) पुखके, 'नीलोत्पले न सम्भवती 'ति (छ) पुस्तके । एवं प्रत्येकं पृथग्विधः पाठ उपलभ्यते ।