________________
अलङ्कारकौस्तुभः ।
न गृह्यते यदि गुणस्तस्य स स्यादतद्गुण: (६१) ॥३१४ का— यथा - सदाऽनुरक्ते मनसोह वर्त्तसे तथाऽपि च त्वं न दधासि रक्तताम् । सदाऽनुषक्तं त्वयि नाथ ! कृष्ण ! हे मनोऽपि मे नैव बिभर्त्ति कृष्णताम् ॥ १८८ यथा वा-क्षीरोदधिजठरभवः सहजन्मा कालकूटस्य ।
तदपि च न सितो न शिति: कौस्तुभ एकः स्वभावतो रक्तः ॥१८८ यस्तु साधितं येन करणेन तदन्यथा ।
तेनैव यदि तस्य स्यात्तदा (फ) व्याघात (६२) इष्यते ॥ ३१५का
३४०
यथा -- उन्तापयास य एव चित्तं स एव भूयः शिशिरीचकार ।
न कालकूटो न सुधातरङ्गः स कीदृशः केशिकषः कटाक्षः ॥ १८० उपमादय एतेऽमी व्याघातान्ता क्रमेण हि । द्विषष्टिसंख्या एवैतेऽलङ्कारा बहवः पुनः ॥ संसृष्ट्या सङ्करेणापि (ब) भूयः संसृष्टिरप्यसौ । क्रियाशब्दार्थोभयभूः सा क्रमेण प्रदर्शयते ॥ ३१६का–
I
शब्दः शब्दालङ्कारः, अर्थोऽर्थालङ्कारः, उभयं शब्दार्थालङ्कारः - एते तयः क्रियाप्रधाना इत्यर्थः । एतेषामन्योन्यनिरपेक्षत्वेन विशकलिततयाऽवस्थानं संसृष्टिः । तत्र शब्दालङ्कारसंसृधिर्यथा - 'सुरतरु' रित्यादौ (म किरणे १३ श्लोक) यमकानुप्रासयोः । अर्थालङ्कारसंसृष्टिर्यथाआलुम्पतीव परितो मनसः प्रसादमालुञ्चतीव पदवीं नयनद्दयस्य । उद्देलकज्जल महोदधिवद्गभोरो मोहोऽन्धकार इव मोह इवान्धकारः ॥ ८१ गृहस्थपालितः शुको मौक्तिकमुलिलेख खच्च्चोल्लिखितच्चकारेत्यर्थः । उदल उत्ततीरमर्यादः कष्णलमहोदधिः श्यामसमुद्रस्तदहभोरो मोहोऽन्धकारश्च । मोहो विषयेऽत्यासक्तिः व्यन्धकारच्च मनखः प्रसादं लुम्पतीव, मोहे सति मनसः प्रसादलोपो भवति तथाऽन्धकारेऽपि काद्यागमन शङ्कया मनसः प्रसन्नता न तिष्ठति । एवमन्धकारे नेत्रदयस्य पदवीलोपा नोऽन्धो भवति, तथा मोहे सति विषयेन ननोऽन्धः सन् पुरः सवोऽपि साधून पश्यति, दपाणिं यममपि न पश्यतीति भावः ।
निरधारि स्वग्रन्थे । व्यत्र 'वक्रोक्ति' पदेन तदाख्यालङ्कारविशेषपरिग्रहं मन्यमाना अर्वाचीनास्तु