________________
२८६
. अलझारकोस्तुभः । रसनारूपकमन्धे पठन्ति (घ)। यथाकुसुमस्मितैलतानां स्मितकुसुमैगौपरमणीनाम् ।।
किसलयकरैरमूषां स करकिसलटेश्च पिप्रिये तासाम् ॥४७ सकष्णः, अमूषां लतानाम्, मासां गोपरमणीनाम् ।
-या तु प्रकृतस्यान्यथाकृतिः। साऽपहुतिः (१०) (ङ)-२४६ कापपतिनामाऽलङ्कारः । अन्यथाकतिः प्रकृतं निषिध्यान्यस्य स्थापनम् ।यथातामाधरौष्ठदलमुबतचारुनासमत्यायतेक्षणमिदं तव नास्यमास्यम् । बन्धकयुग्मतिलपुष्पसरोजयुग्मैः(ड)संपूजितः स्वयमसौ विधिनेव चन्द्रः ॥४८ यथा वा- इदन्ते लावण्यव्रततिफल युग्मं, न तु कुचौ,
मते रज्जन्माथो नभसि, तव राधे ! न वलयः । यायाने मालारूपकम्। (4) हे राधे ! तव मध्यदेशरूपनभसि बलयस्खिवल्यो न भवन्ति, किन्त मते: श्रीकृष्ण बुढेबन्धनार्थ रज्जरूप उन्माथो कूटयन्त्रं भवति । तथेयं तनुरुहागं लतिका रोमावली न भवति, किन्तु नाभिरूपदे ममः कन्दर्परूपसर्पस्तस्य पणास्थनीलमणे: सकाशात् समुद्रच्छन्ती कान्तिभवति । भरतनिर्दिष्टालङ्कारचतुरस्य गणनं परिदृश्यते। उपमारूपकयोरेकतरादपरस्य विवर्तक्रमनिरिणे तयोः सङ्करघटने च प्राचौनकवीनां रचनैव प्रमाणम् । दिग्दर्शनं यथा सौन्दरनन्द -सूत्रेण बडो हि यथा विहङ्गो यावर्त्तते दूरगतेऽपि भूयः । अज्ञानसत्रेण तथाऽवबहो गतोऽपि दूरं पुनरेति लोकः ॥' वनमाला विजयते-अव न कथं समासोक्तिरित्यर्वाक वृत्तिग्रन्थे (शो:५२ विवेचयिष्यते। रूपकेऽर्थबोधप्रसङ्गे न तावत् स्वत एवाभिधागम्यस्यार्थस्य तिरस्करणं, यथा 'पिबमधयथाकाम'मित्यादि दण्याचार्योदाहते समायोक्तिलक्ष्यभूते, परमभिधागम्यस्य लाक्षणिकस्य चार्थस्याभेदमयो स्थितिरित्यप्यू ह्यम्। मधुरिमेति-यानन्दवृन्दावनीयमेतत्पद्यं वैष्णवकायेषु सततमुद्धि यते। अवमोरिति-पञ्चायनः (मतान्तरे सप्ताहायनोवा) कविकणे पूरो भगवतः श्रीकृष्ण चैतन्य चन्द्रादुद्दीपितकवित्वकान्तिरिममेव श्लोक प्रथमं ग्रथितवानिति प्रसिद्धिः-'श्रार्या शतका'ख्यष्य ग्रन्थस्य कर्णपूरकृतस्यायमेव सुखबन्धः । अत्र शोके परिणामाख्यालङ्कारभेदस्य रूपकाद्भावितस्य स्थितिरप्यवसया, कुवलयादीनां मण्डनरूपप्रकृतार्थ उपयोगदर्शनात् । शुख-अयं लिङ्गविपर्याय उपमायामिवानापि न दोषाय । अन्ये पठन्तीति-सच पाठो नासङ्गत इति स्वरसः ।
4) 'तद्यथेत्यादि'मालापक'मित्यन्तोऽश: (ख) (ङ) पुस्तकयोस्ति ।