SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकोस्तुभः । उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि ॥ पुनरेका । धर्मोपमेयलोपेऽन्या विलोपे तु समासगा । एवं दशैकादश च लुप्ता स्यादेकविंशतिः ॥ पूर्णा षडेव तेन स्युरुपमाः सप्तविंशतिः ॥ २३० का . १८२ तत्र पूर्णादिक्रमेोदाहरणानि । तडितगा श्रोती पूर्णा यथातदाननस्य माधुर्यं लोचनानन्द चन्द्रवत् । अक्ष्णोश्च तब लालित्यं राधे ! नीलसरोजवत् ॥ १ । भव' तत्र तस्येवेत्य' मेन वतिः श्रत्यर्थप्रतिपादकः । वाक्यगा श्रौती पूर्णा यथा २२६ का श्यामे वचसि कृष्णस्य गौरी राजति राधिका । कनकस्य यथा रेखा विमले निकषोपले ॥ २ । पत्र श्यामगौरत्वं धर्म:, यथाशब्दः उपमावावी, उपमानं कनकरेखाsदि, उपमेयं राधाऽदि । अत्र व्यङ्ग्यमपि धर्मान्तरमुपमागतम् (क), तद्यथा कनकरेखानिकषोपलयो र्निष्पन्दत्वेन राधाकृष्णयोरानन्द निष्पन्दत्वम् । समासगा श्रौती पूर्णा यथा राधाकृष्णौ मम नवतड़िहाममेघाविवाक्ष्योः स्यातान्तापप्रशमनकृतौ पौतनौल प्रकाशौ । यावन्योन्यावयव रुचिभिः काञ्चनैरिन्द्रनीलेराक्लृप्तेन प्रकटमहसा निष्कराजेन तुल्यौ ३ । 'कनक रेखादी' त्यादिपदेन निकषोपलच्च । "राधे" त्यादिपदेन कृष्णावतच्च । राधाकृष्णौ परस्पराङ्गरुचिभिः खर्णैरिन्द्रनीलमणिभिश्च क्लृप्तेन निष्कराजेन पदकश्रेष्ठेन तुल्यौ । कौस्तुभलता दर्पणानुमोदिता: सप्तविंशतिरेव भेदाः सन्निबद्धा:, मम्मटोक्तास्तु पञ्चविंशतिः । एतच्च भेदपरिकल्पना सूक्ष्मत्वतमन्तरायं हास्यकर मिव च केचिदाधुनिका मन्यन्ते - तत्तुन सामान्यतो रिक्कं वच इति ध्वनिकिरणव्याख्यान व्यस्माभिरुपपादितम् परं भेदसङ्घग्राम घृत्वमनि सुगमो भेदमार्गो युक्तिसूक्तिप्रतिष्ठ:, यथाऽधोदर्शितेऽनवीनस्य कस्यचिदुपमाभेदप्रपचे – 'समानमधिकं हीनं विपोरते कदेशिकम् । यादृच्चिकमभूतश्च सप्तौपम्यार्थसंग्रहः ॥
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy