________________
पञ्चमकिरणः |
२२७
अत्र स्मृतिभावोऽङ्गी, मोह चपलता - ग्लानि जड़ताप्रभृतीन्यङ्गानि । अङ्गत्वेन
नैतद्भावशाबल्यम् |
अथ भावोदयादि- - तत्र भावोदयो यथाआलीजनैर्मण्डनक्रेलिकाले विभूष्यमाणा वृषभानुपुत्रौ ।
उरोगते नीलमणीन्द्रहारे विना सकम्पा पुलकाकुलाऽसीत् ॥ १८२
अत्र हर्षोदयः । प्रशमो यथा
' म्लानाsसि किं प्रेयसि !' 'मामकीनं हृत् पृच्छ' 'पृच्छामि तदि' त्युरोऽस्याः । स्पृश'त्रिदं स्वस्य'मिति स्म कृष्णो ब्रवीति सा नम्रमुखी बभूव ॥ १८३ अत्र विषादप्रशमः । शाबल्यं यथा -- क्रोधान्धा गुरवो जनास्तरलितं दुर्वारमेतम्मनो मर्मच्छेदकरी खलोक्तिरचना रम्यः स वंशीखनः । कीनाशो भवनेश्वर स्त्रि जगतो लावण्य लक्ष्मीपतिः
प्रेमानन्दरसः स एव तनुमान् कृष्णः किमीहे सखि ! (W) ॥१८२ हर्षास्योत्सुक्यानि पृथक् पृथगेव स्थितानि ।
अथ सन्धि: - ' म्लानाऽसि किं प्रेयसी'त्यदौ (इम किरणे १८३ श्लोके) चतुर्थपादाडें 'मा नम्रमुखी बभूवेति विषादनिर्गमे लज्जाऽगमः, अनया: सन्धिः । यथा वा
सुचिरमनुचरीभिः पाठितां कृष्णगाथां सदसि शुक्रवधूभिः शृणुती गौयमानाम् । प्रणय सदयमेकन्तासु विन्यस्यतीयं चकितचकितमन्यक्षेत्रमास्ये गुरुणाम् ॥ १८५ अत्रौत्सुक्यत्रासयोः सन्धिः ।
मोहादीनामङ्गत्वेन परस्पर प्राधान्याभावान्ने तेषां भावशाबल्यमिति ज्ञेयम् ।
श्रीराधाऽह - मामकीनं हृन्मानसं पृछ । श्रीकृष्णस्तु 'हृ' च्छन्दस्य हृदयवाचित्वमभिप्रेत्याह- तत्तव हृदयं पृच्छामि ।
भवनेश्वरो गृहपतिः स्वामी कीनाशः कर्षक इत्यस्या । किमीहे किं चेटे किं करोमीति यावत् । 'क्रोधान्धा' इत्यनेन भयम्, इत्येवंरीत्या सर्वत्र यथासंख्य सम्बन्धो ज्ञेयः । एतानि पृथक् पृथगेव स्थितानि, न त्वङ्गाङ्गिभावतया ; व्यत: शाबल्यमिति बोध्यम् ।
(W) व्यत्र 'कीनाश' पदे श्लेषोऽपि भवितुमर्हः — कौनाशः कृतान्तः । भवमपतिः कृतान्तदारुणः ग्रामीणश्च प्राणपतिस्तु व्यपरूपवेशरूपसम्पत्तिमान् नागरः कलावैदग्धाभूषितखेत्यहो महाननयोर्भेदः । स्वत एव चेतस्त्वदभिमुखं धावतीत्यौत्सुक्यं भावः ।