SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । न केवलं कविभणितिमात्रनिष्पन्नः, व्यवहारेऽपि समुचितत्वेन सम्भाव्यमानः । अन्य कविना तत्रिवज्रवक्ता च प्रतिभाणमात्रेण व्यवहारासिद्धावपि निर्मितौ । वस्तुत्वालङ्गतित्वाभ्यान्ते द्वैविध्येन षट स्मृताः । ४३का ते त्रयो भेदा वस्तुरूपतयाऽलङ्काररूपतया च षट्प्रकाराः स्युः । वस्तुना वस्तुलङ्कारावलङ्कारेण तेषु चेत् | व्यज्येते अप्यलङ्कारवस्तुनो ( ( ) दादशापि तत् ॥ ४४ का तेषु षड़ विधेषु चेत् यदि वस्तुना वस्तु चालङ्कारश्च व्यज्यते, अलङ्कारेणालङ्कारो वस्तु च व्यज्यते, तत् तदा द्वादशापि भवन्तीत्यर्थः । क्रमेणोदाहरणानि - वर्त्तते तादृशोत्तमोत्तमका व्यस्थितोत्तमध्वनेरेव लक्षणम् । ग्रस्यैव द्वादश- भेदा वक्तव्याः । यत्र ध्वनेर्द्धन्यन्तरं नास्ति केवलध्वनिमात्रं, तदर्थं लचणान्तरमनुसन्धेयम् । अन्याविति - स्वतःसम्भविध्वनिभिन्नौ कविवाङ्‌ निष्यन्नकविनिवह्नवक्तवानिष्यन्नध्वनी इत्यर्थः । तौ तु कविना कविनिवद्धवक्त्रा च प्रतिभाणमात्रेण स्ववचनेनैव निम्मितौ । तत्र तत्र लोकव्यवहारासम्भवेऽपि चतुर्मुखत्रव कविरेव खतन्त्र स्टष्टिकर्तेति भावः । काव्यप्रकाशे - 'नियतिक्कृतनियमरहिता' मिति । प्रतएवोक्त' ७४ घट्प्रकाराः स्यरिति- घड़ भेदास्तु सामान्याकारेणापातत एवोक्ताः किन्तु वक्ष्यमाणदाभेदस्यान्तर्गता एव, न तु तदपेचया खतन्त्राः, अतएव षड्भेदानां स्वतन्त्रोदाहरणं न " वस्तुतस्त्वव वक्तृप्रौद्रोक्तिः कविप्रौढ़ोक्तेरधिकं सहृदयचमत्कारकारिणोति पृथक् प्रतिपादित'ति' । अपि च न खलु कविः सर्व्वदेव स्वकायनिवडपात्रमुखेय स्वकीयामेवाभिप्राय प्रणालीमाविष्करोति । प्रौढोक्तिरध्यवसायमूलातिशयोक्त्यलङ्कारप्राणभूतेति ज्ञेयम् । 'प्रौढोक्ति' पदेन सर्व्वविच्छित्तिजीवातुभूतस्य प्रसिद्धस्यातिशयोक्तिचक्रस्यैव परिग्रह इत्यभिधानेऽपि न किमपि वैयर्थम् - यथाहाचार्य्यदण्डी स्वनिवन्धे - 'अलङ्कारान्तरायामप्येकमाहुः परायणम् । वागीश महितामुक्तिमिमामतिशयाहयाम् ॥' ( २२२० ) । दात 'प्रौढाक्ति' पदेन 'वक्रोक्तिजीटिव'कृता कुन्तकेय संज्ञान्तरकल्पनये तर व्यावर्त्तकत्वेन परिछिन्नाया वक्रोक्तरेव निर्देश: - तथा च तत्पद्ये 'प्रसिद्धं मार्गमुत्सृज्य यत्न वैचितासिद्धये । व्यन्यथे वोच्यते सोऽर्थः सा वक्रोक्तिरुदाहृता ॥' 'सेवा सर्वत्र वक्रोक्तिरनयार्थो · विभाव्यते । यत्नोऽस्यां कविना कार्य्यः कोऽलङ्कारोऽनया विना ।' इति च । 'प्रौढोक्ति' पदस्य तात्पय्यैग्रहे पण्डितराज जगन्नाथपादानां प्रहेलिका प्रायमप्यभिधानमतीव चमत्कारीत्यवोदायिते - 'यदेवोच्यते तदेव व्यङ्ग्य, यथा तु व्यङ्गं न तथोच्यते इति । (6) 'वस्तार वस्तुनों इति (ख) पुस्तके वर्ज्जनीयः पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy