SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ वर्णमर्कटी-प्रकरणम् अथ वर्णमर्कटीकरणं यथा प्रथमायामाद्यादीन् दद्यादकांश्च सर्वकोष्ठेषु । अपरस्यां तु द्विगुणान् अक्षरसंख्येषु तेष्वेव [॥ ७१॥ प्रथमायां पङ क्तौ १।२।३।४।५।६।७ इत्याद्यान् लिखेत् । अपरस्यां द्वितीयपङ्क्तौ द्विगुणान् २।४।८।१६।३२।६४।१२८ इत्यादीन् लिखेत् । ऊर्ध्वाधः षट्पङ्क्तयः कार्याः। प्रथमपंक्तिस्थैरइँद्वितीयपंक्तिमान् अङ्कान् विभावयेत्-गुणयेत्, जातैरकैश्चतुर्थपंक्तिकोशान् पूरयेत् । २।८।२४।६४।१६०।३८४।८६६ इत्यादि। ततः पञ्चमी पंक्ति षष्ठी च पंक्ति चतुर्थपंक्तिकोशाङ्कार्द्धन १।४।१२। ३२।८०।१६२।४४८ ईदृशाङ्करूपेण पूरयेत् । ततः तुर्यपंक्तिस्थैः पञ्चमपंक्तिस्थान् अङ्कान् सम्मील्य तृतीयपंक्तिस्थकोशान् [३।१२।३६।१६।२४०।५७६। १३४४।] पूरितान् कुर्यात्। ___ एवमनया मर्कट्या वर्णवृत्तं १, तद्भेदाः २, तेषां मात्राः ३, वर्णाः ४, गुरवः ५, लघवः ६ षडपि पदार्था ज्ञायन्ते । प्रस्तारस्यते प्रकारा बोध्याः। यन्त्रन्यासः प्रागुक्तः । एवं एकाक्षरं वृत्तं तस्य भेदद्वयं, मात्रास्तिस्रः, वर्णद्वयं, एको गुरुः, एको लघुः । द्वयक्षरे वृत्ते चत्वारो भेदाः, द्वादशमात्राः, अष्टौ वर्णाः, चत्वारो गुरवस्तावंत एव लघवः । एवं सर्वत्र ज्ञेयम् । आदीति । पूरयेदिति । कुर्यादिति । वृत्तमिति । सूत्रचतुष्टयं गतार्थम् । [॥ ७२-७५॥ अक्खरसंखे कोठा किज्जसु, छह पंती तहि अंका दिज्जसु । एक्कहि प्राइहि पढमा पंती, दूसरि दूणा बेवि णिभंती ।। प्राइ वेवि गुण चौढ ठविज्जसु, ता अद्धे पंचमि छमि किज्जसु । चौथी पंचइ दुहु मेलिज्जसु, तीसरि पंती अंका दिज्जसु ॥ वित्त पत्र भेन मत्त अरु वण्णह, पंचमि छट्टमि लहु गुरु गण्णह । १. यन्त्रन्यासः ३६२ पत्राङ्क द्रष्टव्यः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy