________________
मात्रामेरु-प्रकरण
[ ३५३
यथा द्वाभ्यां एककाभ्यां मेलने जातं २ । अग्रे अन्तकोष्ठे एक: सिद्ध एव इति द्वितीया पंक्तिः । अस्याः प्रथमकोशे त्रिकस्तं विहाय कोशभरणं एवं तृतीयपङ क्तो। विषयामां द्वितीयपङ क्तिगत: द्विकः तदुपरि वामस्थित एकः, एवं १।२ मीलने जाताः ३, मध्यकोशे, अन्तकोशे पुनः एकः सिद्ध एव । प्रथमकोशे तु 'एकाङ्कमयुग्पङ क्तेः ।' इति सूत्रणात् एकाङ्कः स्थाप्य एव, तस्याप्यादौ पूर्वयुग्माङ्कः पञ्चकः सकोशभरणेन ग्राह्यः। एवं प्राप्तं चतु:कले पञ्चरूपाणि एक सर्वगं, त्रीणि एकगुरूणि, एक अन्ते सर्वलघुरूपम् । ___ एवं पञ्चकलमेरुकोशेषु द्विकलेन समकोशत्वात् चतुःकलस्य १।३ एतौ संयोज्य उपान्त्ये ४ अन्ते एकः सिद्ध एव । ततः द्विकलपंक्तिगं द्विकं त्रिकलपंक्तिगं एकञ्च संयोज्य त्रिक: स्थाप्यः, तस्याप्यग्रेऽष्टकः पूर्वयुग्माङ्कः । एवं च त्रीणि रूपाणि द्विगुरूणि, चत्वारि एक गुरूणि । कानि कानि ? इत्याशङ्का पताकया निरस्या । अत्र मेरौ लग-क्रियावत् रूपसंख्यैव ।
षट्कले तु चतु:कलस्यैकं, पञ्चकलस्य चतु:कं च संयोज्य उपान्त्ये पञ्चकः, अन्त्ये तु एकः सिद्ध एव, चतु कलगतत्रिकं तथा पञ्चकलगतत्रिक संयोज्य जाताः ६ । ततोप्याद्यकोशे एककः षट्कलत्वात् आदी सर्वगुरुकैकरूपज्ञानाय ततोप्यादौ १३ युग्माङ्कः । एवञ्च एकं रूपं त्रिगुरुकं, षट्पाणि द्विगुरुकाणि, पञ्चरूपाणि एकगुरुकाणि, एकमन्त्यं सर्दलघुकम् । एवं सर्वाणि १३ रूपाणि ।
सप्तकलके पञ्चकलस्य त्रिकं, षट्कलस्यैकं संयोज्य प्रादौ ४, तस्याप्यादौ २१ युगमाङ्कः । चतुःकात् परकोशे पञ्चकलगतं चतु:कं षट्कलगतं षट्कं संयोज्य १०, ततः परं पञ्चकलगतं एक षट्कलगतं पञ्चकं संयोज्य षट्, ततोऽन्ते एकः सिद्ध एव । एवं च चत्वारि रूपाणि त्रिगुरूणि, दशरूपाणि द्विगुरूणि, षट्पाणि एकगुरूणि, एकं सर्वलघु, एवं २१ सर्वरूपाणि ।
अष्टकलके समपङ्क्तित्वात् एकं सर्वगुरुरूपं तदङ्कः १, तस्यादौ ३४ युग्माङ्कः, एकस्य कोशादतनकोशे षट्कलपंक्तिगतं षट्कं, सप्तकलपंक्तिगतं चतुःकं संयोज्य १०, तदने षट्कलगतं पञ्चकं सप्तकलगतदशक १० योगे १५ धरणं, तदने षट्कलगतं एक सप्तकलगतं षट्कं संयोज्य ७, अन्ते चैकः । एवं च एकं सर्वगुरु, दशरूपाणि त्रिगुरुक णि, १५ रूपाणि द्विगुरूणि, सप्त एकगुरूणि, एकं सर्वलं, इति ३४ रूपाणि । .. एवं नवकले उपरितनपंक्तिगत ४।१ योगे ५, पुनः १०।१० योगे २०, पुन: ६।१५ योगे २१, पुनः ११७ योगे ८ इति ५५ रूपाणि । इति मात्रामेरुः ।