________________
मात्रानष्ट-प्रकरण
[३४१
पूर्व-पूर्वत्रिकलरूपतापि । तत्र गुर्वाधिक्यं परार्द्ध लघूनामाधिक्यं प्रान्तलघुता च । यथा, त्रिकलतः चतुःकले रूपद्वयाधिक्यं तेन प्रथमरूपद्वये न गुरुत्वं, शेषद्वये चान्तलघुत्वं, पञ्चमं तु चतुर्लम् । पञ्चकलेपि प्रथमत्रिरूपीत्रिकलस्य पश्चात् पञ्चरूपी चतुःकलस्य तत्रापि प्रान्तलघुता । पञ्चसु रूपेष्वपि द्विकलाद् रूपद्वयं प्रान्तगुरुकं तस्याप्यग्रे एकं लघु । ततोऽपि रूपद्वयं त्रिकलवत् प्रान्तलघुद्वयं चतुःकलापेक्षया पञ्चमं, पञ्चकलापेक्षयाऽष्टमं सर्वलघुकम् ।
पञ्चकलात् षट्कले पञ्चरूपाधिक्यं, पञ्चापि रूपाणि चतुःकलवत् प्रान्ते एकगुरोरधिकस्य दानात् कलापूर्तिः, पञ्चमे रूपे एको गुरुरन्ते शेषं लघुचतुष्टयम् ।
परतोऽष्टरूपाणि पञ्चकलवत् प्रान्ते एकलघुनाऽधिकानि । तत्राप्यष्टमे प्रान्ते एकगुरुः शेषं लघुपञ्चकं, अष्टाष्वपि रूपत्रयं त्रिकलवत् प्रान्ते गुरुलघुभ्यामधिकं षट्सप्तमाष्टरूपं, परं रूपपञ्चकं चतुःकलवत् प्रान्ते लघुद्वयाधिकं इत्यादी विचार एव बलवान् ।
एवं पृष्टे पञ्चकले षष्ठरूपे तदा प्रान्त्याष्टमध्ये ६ लोपे शेषं १, २, ३, ५, २, अन्त्यद्विकाधो लः, तस्य पञ्चके भागात् उपान्त्यादूनत्वाच्च पञ्चकेपि द्विकस्य भागे लब्धं २ शेषं १ तेन पञ्चकाधोपि लः, त्रिकाधो गः, द्विकलोपः, तुर्ये पञ्चमे च रूपे पञ्चकाधो गः, विकलोपः । पञ्चकले हि त्रिकलवत् त्रिरूपी गुरुणान्तेऽधिका इदं पृष्टं षष्ठं रूपं इति विचारात् लब्धस्य द्विकस्य त्रिके भागाच्च, मुख्यकाधः कला ।।।। इति षष्ठं रूपम् । यथा उपान्त्ये-अन्त्यस्य भागे उपान्त्याधो गः, अन्त्याधो लः, उपान्त्यपूर्वस्य लोपः, तथा द्विकस्य पञ्चके शेषं १ तस्य त्रिके भागेपि संभवति त्रिकाधो गः, पञ्चकस्थानीयद्विकाधो लः, पूर्वद्विकलोपः, मुख्याधो लः । इति रूपनिर्णयः । __ पञ्चकले सप्तमेपि अन्त्याष्टके सप्तलोपे शेषं १ तदधो लः शेषकस्यापि पञ्चके भागे शेषं पूर्णम् । अग्रे त्रिकस्य द्विके भागाभावः वृद्धत्वात्, मुख्यकस्य द्विके भागात् द्विकाधो गः, मुख्यकलोपः, त्रिकाधो लः, इति ।।।। सप्तमम् ।
यो यस्मात् पूर्वपूर्वोऽङ्कस्तावद्रूपेषु चान्त्यगः ।
तत्परं प्रान्त-लान्येव स्वतः पूर्वाङ्कसंख्यया ।। ४ ॥ एवं सप्तकले पृष्टे एकादशे रूपे अन्त्याङ्के २१ मध्ये ११ पाते शेष १० तस्य उपान्त्याङ्के १३ मध्ये भागः प्राप्तः, तत्र अष्टकस्य कलाग्रहात् १३ स्थानीयत्रिकाधो गः, अष्टकलोपः, दशाधो लः, द्विकस्य त्रिके भागः, तेन त्रिकाधो गः, द्विकलोपः, मुख्यकाधो लः, पञ्चकाधो लः, एवं ।।।। इत्येकादशरूपसिद्धिः।