________________
महोपाध्यायश्रीमेघविजयगणिसन्दृब्धः वृत्त मौक्ति क दुर्ग म बो धः
[उद्दिष्टादिप्रकरणव्याल्या]
[ मङ्गलाचरणम् ] प्रणम्य फणिना नम्यं सम्यक् श्रीपार्वमीश्वरम् ।
उद्दिष्टादिषु सूत्राथं कुर्वे श्रीवृत्तमौक्तिके ॥ १॥ अथ वृत्तमौक्तिके उद्दिष्टं नष्टं वर्णतो मात्रातो वा विवियते
दत्त्वा पूर्वयुगाङ्कान लघोरपरि गस्य तूभयतः । अन्त्याङ्के गुरुशीर्षस्थितान् विलुम्पेदथाङ्कांश्च ।। ५१ ।।
उद्वरितैश्च तथाङ्कात्रोद्विष्टं विजानीयात् । षड्भिः पदैः सूत्रं तद्व्याख्या
केनापि नरेण लिखित्वा दत्तं । ऽ । ऽ । इदं कतमत् रूपम् ? इति प्रश्ने उद्दिष्टं ज्ञेयम् । तत्र पुर्वयुगलाङ्काः प्रत्येकं धार्याः । पुर्वयुगलाङ्का इति संज्ञा अङ्कानाम् ! तत्कथम् ? इति चेत्, मात्रोद्दिष्टे - १।२।३।५८।१३।२१।३४।५५।८६ इति । अत्र १ मध्ये २ योजने ३ । पुनः ३ मध्ये पूर्वाङ्क २ मेलने ५। पुनः ५ मध्ये स्वपूर्वाङ्क ३ मेलने ८ । तत्रापि स्वपूर्वाङ्क ५ मेलने १३ । तत्रापि स्वपूर्वाङ्क ८ क्षेपणे २१ । तस्मिन्नपि स्वपूर्वाङ्क १३ एकीकरणे ३४। तन्मध्ये स्वपूर्वाङ्क २१ क्षेपे ५५ । अत्रापि स्वपूर्वाङ्क ३४ योगे ८६ इत्येवं योजनारीतिः । पूर्वं पूर्वमेलनाज्जातत्वात् पूर्वयुगाङ्का इति संज्ञाभाजः । तद्धरणरीतिः
।
ऽ
।
ऽ
।
एवं लघोरुपरि एक अङ्कन्यासः गस्य-गुरोस्तु उभयतः-उपरि अधश्च पार्श्वद्वयेऽपि अङ्कधरणम् । एतत् कृत्वा अन्त्याङ्के २१ रूपे गुरोरुपरिस्था अङ्का २।८ मेलने १०, एते २१ मध्यात् विलुम्पयेत्-पराकुर्यात्, उदरितोऽङ्कः ११ एवं निश्चितं ज्ञातं सप्तमात्रे मात्राच्छन्दसि एकादशं रूपमिदम् । ईदृशं ।।। अन्यत्रापि।