________________
३२६ ]
वृत्तमौक्तिक-वातिक- दुष्करोद्धार
[ वृत्तिकृत्प्रशस्तिः ]
श्रीमत्पिङ्गलनागेन प्रोक्तो यो मर्कटीक्रमः । विविच्य स मया प्रोक्तः शिष्यानुग्रहहेतवे ॥ १ ॥ मुनी भूपतिमिते १६८७ वैक्रमेऽब्दे प्रमाथिनि । कात्तिकेऽसितपञ्चम्यां लक्ष्मीनाथ व्यरीरचत् ॥ २ ॥ वातिके दुष्करोद्वारमुदारं छान्दसप्रियम् । अन्तः सारं स्फुटार्थं च कवीनां कौतुकावहम् ।। ३ ।।
इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसचञ्चरीकालङ्कारिकचक्रचूडामणि- साहित्यार्णवकर्णधार - छन्दः शास्त्रपरमाचार्य-श्रीलक्ष्मीनाथ भट्टारकविरचिते श्रीवृत्त मौक्तिकवात्तिकदुष्करोद्धारे एकमात्रादिनिरवधिकमात्राप्रस्तारेषु तत्तज्जातिमात्रामकंटीप्रस्तारोद्धारो नामैकादशो विश्रामः ॥ ११ ॥
समाप्तश्चायं वृत्तमौक्तिकवातिके दुष्करोद्धारः । शुभमस्तु । श्रीनागराजाय नमः ।
संवत् १६६० समये भाद्रपदशुदि ३ भौमे शुभदिने श्रर्गलपुरस्थाने लिखितं लालमनिमिश्रेण । शुभं सूयात् । श्रीविष्णवे नमः ।