________________
एकादशो विश्रामः
श्रीनागराजमानम्य सम्प्रदायानुमानतः । श्रीचन्द्रशेखरकृते वात्तिके वृत्तमौक्तिके ॥१॥ वर्णमर्कटिकामुक्त्वा मात्रामर्कटिकामपि ।
दुष्करा दुष्करोद्धारे सुकरां रचयाम्यहम् ॥२॥ अथ पंचमप्रत्ययस्वरूपामेव मात्रामर्कटीमाह-कोष्ठान्' इत्यादिना 'नष्टोद्दिष्टं' इत्यन्ते एकादशश्लोकेनकोष्ठान् मात्रासम्मितान् पंक्तिषट्क,
कुर्यान्मात्रामर्कटीसिद्धिहेतोः । तेषु यादीनादिपंक्तावथाङ्कां
स्त्यक्त्वाऽऽद्यात सर्वकोष्ठेषु दद्यात् ॥७६ ॥ दद्यादङ्कान् पूर्वयुग्माङ्कतुल्यान,
त्यक्त्वाऽऽद्याङ्क पक्षपङ्क्तावथाऽपि । पूर्वस्थाकैर्भावयित्वा ततस्तान्,
कुर्यात् पूर्णान्नेत्रपंक्तिस्थकोष्ठान् ॥ ७७ ॥ प्रथमे द्वितीयमङ्क द्वितीयकोष्ठे च पञ्चमाङ्कमपि । दत्त्वा बारणद्विगुणं तद्विगुणं नेत्रतुर्ययोर्दद्यात् ॥७८ ॥ एकीकृत्य तथाऽङ्कान् पञ्चमपंक्तिस्थितान् पूर्वान् । दत्त्वा तथैकमकं कुर्यात्तेनैव पञ्चमं पूर्णम् ॥ ७६ ॥ दत्त्वा पञ्चममङ कं पूर्वाङ्कानेकभावमापाद्य ।। दत्त्वा तथैकमङ कं षष्ठं कोष्ठं प्रपूरयेद् विद्वान् ॥८० ॥ कृत्वक्यं चाङ कानां पञ्चमपंक्तिस्थितानां च । त्यक्त्वा पञ्चदशाङ कं हित्वकं पूरयेन मुनेः कोष्ठम् ।। ८१ ॥ एवं निरवधिमात्राप्रस्तारेष्वङ कबाहुल्यम् । प्रकृतानुपयोगवशान न कृतोऽङ कानां च विस्तारः ।। ८२ ।। एवं पञ्चमपंक्ति कृत्वा पूर्णा प्रथममेका कम् । दत्त्वा पञ्चमपंक्तिस्थितैरथाङ कैः प्रपूरयेत् षष्ठीम् ॥ ८३ ।।