________________
३२२ ]
वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार
एकीकृत्य तथाऽङ कान् पञ्चमषष्ठस्थितान् विद्वान । कुर्याच्चतुर्थपंक्तिं पूर्णां नागाज्ञया तूर्णम् ।। ८४ ॥ वृत्तं प्रभेदो मात्राश्च वर्णा लघुगुरू तथा। एते षट्पंक्तितः पूर्णप्रस्तारस्य विभान्ति वै ॥२५॥ नष्टोद्दिष्टं यद्वन् मेरुद्वितयं तथा पताका च ।
मर्कटिकापि च तद्वत् कौतुकहेतोनिबद्धयते तज्ज्ञः ॥८६॥ तन च एकमात्रादिनिरवधिकमात्राप्रस्तारेषु च तत्तज्जातिप्रस्तारे कति कति प्रभेदाः, कियन्त्यः कियन्त्यो मात्राः, कियन्तः कियन्तो वर्णाः, कति कति लघवः, कति कति गुरवः ? इति महाप्रश्ने कृते मात्रामर्कटिकया वक्ष्यमाणस्वरूपया प्रत्युत्तरं दातव्यमिति मात्रामर्कटीविरचनप्रकारो लिख्यते___ कोष्ठानिति । तत्र-तावन्मात्रामर्कटीसिद्धिहेतो:-मात्रामर्कटीसिद्धयर्थं पंक्तिषटकं यथा स्यात्तथा मात्रासम्मितान्-मात्राभिः परिमितान् मात्राणां संख्यया संयुक्तानिति यावत् कोष्ठान् कुर्यात्-विरचयेदित्यर्थः । तेषु-कोष्ठेषु आदिपङ्क्तोप्रथमपङ क्तौ वृत्तपङ क्तौ इति यावत् द्वयादीन्-द्वितीयादीन् द्वितीय-तृतीयचतुर्थ-पञ्चम-षष्ठादीनङ्कान् २. ३. ४. ५. ६ इत्यादीन् क्रमेण यावदित्थं प्रथम दद्यात्-विन्यसेत् । किं कृत्वा? अथ चेत्यर्थः । सर्वकोष्ठेषु-षट्स्वपि कोष्ठेषु आद्याकंप्रथमाझं त्यक्त्वा-परित्यज्य । अत्र सर्वकोष्ठेषु प्रथमाङ्कत्यागो न सर्वथा सर्वकोष्ठत्यागपरः, किन्तु षष्ठगुरुप्रथमपंक्तिकोष्ठत्यागपर इति प्रतिभाति । तत्र गुरोरभावादेवेति ब्रूमः । अतश्च सम्प्रदायात् पञ्चसु कोष्ठेषु प्रथमाङ्कविन्यासः कर्तव्यः । अन्यथा वक्ष्यमाणाङ्कविन्यासभङ्गापत्तेरिति भावः ।। ७६ ।।
एवं अङ्कविन्यासे कृते सति प्रथमा वृत्तपंक्तिः सिद्धयति ॥ १॥ अथ द्वितीयां प्रभेदपंक्ति साधयति
दद्यादिति । अथेति-प्रथमं पंक्तिसिद्ध यनन्तरं पक्षपङ क्तावपि-द्वितीयपंक्तावपि आद्याकं-प्रथमाकं त्यक्त्वा-परित्यज्य, प्रथमाङ्कस्य पूर्वाङ्काभावात् द्वितीयकोष्ठादारभ्य प्रथमाङ्कशिरःस्थं प्रथमाकं गृहीत्वा पूर्वयुग्माङ्कतुल्यान्, उद्देशक्रमानुसारेण एक-द्वि-त्रि-पञ्चाष्ट-त्रयोदशादीन् अङ्कान् १, २, ३, ५, ८, १३ शृङ्खलाबन्धन्यायेन क्रमतो यावदित्थं दद्यात्-विन्यसेदित्यर्थः ।
एवं अङ्कविन्यासे कृते सति द्वितीयाप्रभेदपंक्तिः सिद्धयति ।२। अथ तृतीयां मात्रापंक्ति साधयति
पूर्वस्थाङ्करिति । पूर्वस्थाङ्क:-प्रथमपंक्तिस्थिताङ्कः ततो द्वितीयपंक्तिपूरणानन्तरं तां द्वितीयं "प्रत्येकं-प्रतिकोष्ठं भावयित्वा-गुणयित्वा इत्यर्थः । नेत्र