SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ १०. दशम विश्राम [ ३१९ अथ षष्ठ-पञ्चमपंक्त्योः पूरणोपायमुपदिशति - पूरयेदिति । षष्ठपञ्चम्यौ पङ्क्ती कर्मीभूते तुर्याङ्कसम्भवैः चतुर्थ्यां पंक्तिस्थिताङ्कोत्पन्नंरर्द्धं रेकचतुर्द्वादशादिभिरङ् कैः १. ४. १२. पूरयेत् । एव कृते षष्ठपञ्चम्यौ गुरुलघुपंक्ती सिद्धयतः । अत्र पंक्त्योर्व्यत्ययः छन्दोऽनुरोधेन कृतः, फलतस्तु न कश्चिद् विशेषोऽङ कसाम्यादिति पंक्तिद्वयं सिद्धम् । थोर्वरितां तृतीयां मात्रापंक्ति साधयति एकीकृत्येति उत्तरार्द्धपूर्वार्द्धाभ्याम् । तत्र सुधीः - प्रङ कमेलनकुशलो गणकः चतुर्थ पंक्तिस्थितान् द्वयष्टचतुर्विंशत्यादिकान् अङ्कान् पञ्चमपंक्तिस्थितान् एकचतुर्द्वादशादिकानङ्कांश्च, अत्र चकारोऽध्याहार्य:, एकीकृत्य - मेलयित्वा त्रि-द्वादशषट्त्रिंशदादिरूपतामापद्येति यावत् उर्वरितान् - तृतीयपंक्ति स्थित कोष्ठ कानपि त्रि-द्वादश - षट्त्रिंशदादिरूपमें लितैरङकैः ३. १२. ३६. पूरितान् कुर्यादित्यन्वयः । अत्राप्यपि एवार्थः । श्रविचारितं पूरितान् कुर्यादेवेत्यर्थः । एवं कृते तृतीयामात्रापंक्तिः सिद्धयति । फलितार्थमाह- परमार्थेन 'वर्णानां ' इति । सोऽयं पूर्वोक्तप्रकारेण घटिता वर्णानां मर्कटीव मर्कटी - श्रङ्कजालरूपिणी पिङ्गलेन - श्रीनागराजेन प्रकाशिता - प्रकटीकृता ।। ७४ ।। एवं विरचनप्रकारेण पंक्तिषट्कं साधयित्वा वर्णमर्कटीफलमाह वृत्तमिति । वृत्तं वृत्तानि - एकाक्षरादीनि 'एकवचनं तु जात्यभिप्रायेण' भेदः-प्रभेदः वृत्तानां प्रभेदा इत्यर्थः । पूर्ववदत्राप्येकवचननिर्देश: । मात्रा ः- तत्तद्वृत्तमात्राः, वर्णाः तत्तद्वृत्तवर्णाः, गुरवः- तत्तद्वृत्तगुरवः तथा च लघवोऽपि - तत्तद्वृत्तलघव इत्यर्थः । प्रस्तारस्येति सम्बन्धे षष्ठी । एते वृत्तादयः षट् -षट्संख्याविशिष्टाः पंक्तितः षट्पंक्तितः क्रमतः - क्रमाद् ज्ञायते - हृदयङ्गमतां प्रपद्यन्त इत्यर्थः ।। ७५ ।। श्रीलक्ष्मीनाथकृतो मर्कटिकायाः प्रकाशोऽयम् । तिष्ठतु बुधजनकण्ठे वरमुक्ताहारभूषणप्रख्यः ॥ अस्याः स्वरूपमुदाहरणमत्र द्रष्टव्यम् । इत्यलं पल्लवेनेति ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy