________________
३१८ ]
वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार
कुर्यात् तृतीयपंक्तिस्थकोष्ठकानपि पूरितान् । वर्णानां मर्कटी सेयं पिङ्गलेन प्रकाशिता ।। ७४ ।। वृत्त भेदो मात्रा वर्णा गुरवस्तथा च लघवोपि ।
प्रस्तारस्य षडेते ज्ञायन्ते पंक्तितः क्रमतः ।। ७५ ।। तत्र एकाक्षरादिषड्विंशत्यक्षरावधिवर्णवृत्तप्रस्तारेषु तत्तद्वर्णवृत्तप्रस्तारे कति कति प्रभेदाः, कियन्त्यः कियन्त्यो मात्राः, कियन्तः कियन्तो वर्णाः, कति कति गुरवः, कति कति च लघवः ? इति महाप्रश्ने कृते, वर्णमर्कटिकया वक्ष्यमाणस्वरूपया प्रत्युत्तरं देयमिति ।
वर्णमर्कटीविरचनप्रकारो लिख्यते
मर्कटीति । भो शिष्य. ! वर्णप्रस्तारस्य एकाक्षरादिषड्विंशत्यक्षरावधि कृतस्येति शेषः । अतिदर्गमा-अतिदुष्करा मर्कटीव मर्कटी-तन्तुजालैरिव विरचिता अङ्कजालपंक्तिस्तावल्लिख्यते-विरच्यत इति प्रतिज्ञा । तत्र वा स्वेच्छया अक्षरसंख्यातं-कोष्ठं रचय तथा षट्संख्याविशिष्टा: पंक्तींश्च रचय-कुरु इत्यर्थः ।।७०॥
अथ प्रथमां वृत्तपंक्ति साधयति
प्रथमायामिति । तत्र प्रथमायां-प्रथमपंक्तौ वृत्तपंक्ताविति यावत् सर्वकोष्ठेषु पूर्वविरचितेषु प्राद्यादीन्-प्रथमादीन् एकद्वित्र्यादीन् अङ्कान् १. २. ३. यावदित्थं दद्यात्-विन्यसेत् । एवं कृते प्रथमवृत्तपंक्ति: सिद्धयति ।
अथ द्वितीयां प्रभेदपंक्ति साधयति
अपरायामिति । चकार:-अानन्तर्यार्थः । तत अपरायां तु द्वितीयायां प्रभेदपंक्तावित्यर्थः । अक्षरसंख्येषु-तत्प्रस्ताराक्षरसंख्येषु तेष्वेव विन्यस्तेषु कोष्ठेषु द्विगुणान्-द्विचतुरष्टादिक्रमेण द्विगुणानङ्कान् २. ४. ८ यावदित्यमित्यस्य सर्वत्रानुवृत्तिः, दद्यात् इति पूर्वेणैव अन्वयः ।। ७१ ।। एवं कृते द्वितीयाप्रभेदपक्तिः सिद्धयति । ____ अथ क्रमप्राप्तामपि तृतीयां मात्रापंक्तिमुल्लंघ्य तन्मूलभूतां चतुर्थी वर्णपंक्ति साधयति
आदिपंक्तिस्थितैरिति । आदिपंक्तिस्थितैः-प्रथमपंक्तिस्थितैः वृत्तपंक्तिस्थितैरेकद्वित्र्यादिभिरङ्कः परपंक्तिगान्-द्वितीयपंक्तिस्थितान् द्विचतुरष्टादिक्रमेण स्थितानङ्कान् विभाव्य-गुणयित्वा, ततस्तद्गुणितैः-द्वयष्टचतुर्विशत्यादिभिरङ्कः २. ८. २४. चतुर्थपंक्तिस्थकोष्ठकान् पूरयेदित्यन्वयः । अपि एवार्थे । अविचारितं पूरयेदेवेत्यर्थः । ७२ ॥ एवं कृते चतुर्थी वर्णपंक्तिः सिद्धयति ।