________________
नवमो विश्रामः
अथ वृत्तजातिसमा समविषमपद्यस्थगुरुलघुसंख्याज्ञानप्रकारमाह 'पृष्ठे' इति श्लोकेन ।
पृष्ठे वर्णच्छन्दसि कृत्वा वास्तथा मात्राः ।
वर्णाङ्कन कलाया लोपे गुरवोऽवशिष्यन्ते ।। ६६ ।। तत्राऽमुकसंख्याक्षरप्रस्तारेऽमुके छन्दसि कति गुरवः, कति च लघव इति प्रश्ने कृते गुरुलघुसंख्याज्ञानप्रकारप्रक्रिया प्रकाश्यते ।।
तत्रोद्भावितचतुष्पदे वर्णप्रस्तारच्छन्दसि समवृत्ते पृष्ठे सति वर्णान्-तत्रस्थ वर्णान् गुरुलघुरूपतया समुदायमापन्नान् मात्रा:-कलाः कृत्वा, तथा गुरुलघुरूपसमु. दायतयैव कलारूपतामापद्यत्यर्थः। ततः कलाया इति जात्या एकवचनं । अतः कलानां मध्यत इत्यवधेयम् । वर्णाङ केन पृष्ठस्य वृत्तस्य वर्णसंख्याङ्कन लोपे लोपावशिष्टकलासंख्यया गुरवोऽवशिष्यन्ते, तत्तद्वत्तगतगुरून् जानीयादित्यर्थः । गुरुज्ञाने सति परिशेषादवशिष्टवृत्ताक्षरसंख्यया लघूनपि जानीयादित्यर्थः । ६६ ।।
अत्र समवृत्तस्यैकपादज्ञानेनैव चतुर्णामपि पादानामुट्टवणिकां विधाय लिखनेन गुरुलघुज्ञानं भवतीत्यनुसन्धेयः सुधीभिः । यथा
समवृत्ते एकादशाक्षरप्रस्तारे षोडशमात्रात्मके रथोद्धतावृत्तपादे 'रात्परैन्नरलगै रथोद्धता' इत्यत्र 515,।।।, 5 1 5, 15 वर्णाः ११, मात्रा: १६ षोडशकलासु पिण्डरूपासु संख्यातासु वृत्तस्यैकादशवर्णसंख्यायां लुप्तायां सत्यामवशिष्टपञ्चगुरवः षड्लघवः परिशेषाद् विज्ञेया । इति समवृत्तस्थगुरुलघुजानप्रकारः । एवं पादचतुष्टयेऽपि पादसाम्यात् विंशतिर्गुरवः चतुर्विंशतिर्लघवश्च भवन्तीति ज्ञेयम् । एवं प्रस्तारान्तरेऽपि समवृत्तेषु गुरुलघुज्ञानमूह्यं सुधीभिरित्युपदिश्यते । एवञ्च षट्त्रिंशदक्षरायाम् ।
___ गोकुलनारी मानसहारी वृन्दावनान्तसञ्चारी।
__ यमुनाकुजविहारी गिरिवरधारी हरिः पायाद् ।। इत्यस्यां देहीसमाख्यायां गाथाजातौ सप्तपञ्चाशत् संख्यातासु पिण्डरूपासु कलासु षड्त्रिंशदक्षरलोपे कृते सति एकविंशतिगुरवोऽवशिष्यन्ते । पारिशोष्यात् । पञ्चदश लघवोऽपीति च ज्ञेयम् । इति गाथाजातिषु गुरुलघुज्ञानप्रकारः ।