________________
३१४ ]
वृत्तमौक्तिक-धात्तिक-दुष्करोद्धार
इति सार्द्धन श्लोकेन सूत्रवृत्ती पञ्चमात्रापताकायां सिद्धाङ कानुक्रमणिका संगृहीता इति ।
अत्राप्यङ्कविन्यासक्रमः पूर्ववदेव । इत्थं सप्ताष्टनवसु कलासु अङ कान् समुन्नयेत् । दिङ मात्रमुक्तमस्माभिः ग्रन्थविस्तरशङ्कया इति सर्वमनवद्यम् ।
पञ्चमात्रापताका यथा
षण्मात्रापताका यथा
इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसचञ्चरीकालङ्कारिकचक्रचूडामणि-साहित्यार्णवकर्णधार-छन्दःशास्त्रपरमाचार्य-श्रीलक्ष्मीनाथभट्टारकविरचिते श्रीवृत्तमौक्तिकवात्तिकदुष्करोद्वारे मात्रा
पताकोदारो नामाष्टमो विश्रामः॥८॥