________________
८. अष्टम विश्राम
[ ३१३
। षट्कलप्रस्तारे द्वितीय-तृतीय-चतुर्थ-षष्ठ-सप्तम-नवमस्थानस्थानि रूपाणि द्विगुरूणि ब्रूयादिति । ___ तथा च त्रिलोपे त्रिगुरुकं रूपं भवतीति, त्रिपञ्चाष्टलोपे भागो नास्तीति, द्वि-त्रि-पञ्चलोपोऽप्यष्टात्मको वृत्त एवेति, पञ्च-द्वय कलोपोऽप्यष्टलोपात्मको वृत्त एवेति । एक-द्वि-त्रिलोपोपि वृत्त इति प्रकारेण जायमाना अङ्का न स्थापनीयाः । कृतप्रस्तारसमाप्तेरिति भावः ।
ननु प्रथमं रूपं सर्व गुर्वात्मकं कुत्रास्तीत्यपेक्षायां एक-त्र्यष्टभिमिलित्वा जातैदशभिस्त्रयोदशाङ्कावयवे लुप्ते सति एकोऽवशिष्टः, स आद्य स्थाने त्रिगुर्वात्मकं रूपं भवतीति विज्ञातव्यमिति । चरमं रूपं तु अष्टमाङ्काग्रे उद्दिष्टाङ्काऽऽकारत्वेन स्थापितमेवास्ति । तथा चात्रापि प्रथमाङ्कचरमाङ्कयो पूर्वोक्तन्यायेनाऽवस्थानं भवतीति वेदितव्यम् ।
पताकाप्रयोजनं तु मेरौ षट्कलप्रस्तारस्यैकं प्रथमं रूपं त्रिगुरूपलक्षितं सर्वगुर्वात्मकं, षड्विगुरूणि रूपाणि, पञ्चकगुरूणि रूपाणि, एकं सर्वलघ्वात्मकं रूपमस्ति।
तत्र त्रयोदशभेदभिन्ने षट्कलप्रस्तारे कुत्र स्थाने सर्वगुर्वात्मकं, कतमस्थाने द्विगुर्वात्मकं, कतरस्थाने चैकगुर्वात्मकं, कुत्र वा सर्वलघ्वात्मकं, कति वा प्रस्तारसंख्येति प्रश्ने कृते पताकयोत्तरं दातव्यमिति पताकाज्ञानफलमिति । श्रीगुरुमुखादवगतो मात्रापताकालिखनप्रकारः प्रकाशितः । एवमन्यत्रापि निरवधिकमात्राप्रस्तारेषु पञ्चसप्ताष्टकलानां यथाक्रमं मात्रापताकाविरचनप्रकारः समुन्नेयः सुधीभिः, ग्रन्थविस्तारभयान्नेहास्माभिः प्रपञ्चित इति शिवम् ।
अत्रापि पिङ्गलोद्योताख्यायां सूत्रवृत्तौ सार्द्धन श्लोकेन षण्मात्रापताकायां सिद्धाङ्काः संगृहीताः । यथा
एक-द्वि-त्रि-समुद्राङ्ग-मुन्यङकाश्च त्रयस्तथा। पञ्चाष्ट-दिक्-शिवेनाः स्युः तथाष्टौ च त्रयोदश ।
षण्मात्रिकापताकायामङ्कानुक्रमणी स्मृता। इति । इहापि च पंक्त्या विन्यासक्रमो गुरुमुखादवगन्तव्यः । किञ्च
एक-द्वि-त्रि-समुद्राङ्ग-मुनि-वह्नि-शरस्तथा । वसु-दिग्-रुद्र-सूर्याष्टक्रमादकान् समालिखेत् ।। पञ्चमात्रापताकायामङ्कानुक्रमणी मता ।