________________
३१२ ]
वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार
तत्पूर्व त्रिविद्यमानत्वात् अष्टमाङ्कलोपात् परकलया सह गुरुभावाच्च पञ्चमाङ्काद् एकगुरुपंक्तिक्रमो विधेय इति । तत्र च पञ्चमस्थाने आदौ चतुर्लघुकमन्ते चैकगुरुकमेवं ।।।। ऽ आकारं रूपमस्तीति ज्ञानपताकाफलम् । एवमन्यत्रापि गुरुभावो ज्ञातव्यः । ___ तथा पञ्चभिस्त्रयोदशाकावयवे लुप्ते सति अष्टावशिष्यन्ते, ते तु पञ्चाधो लेख्यः । तथा त्रिभिस्त्रयोदशाङ्कावयवे लुप्ते सति दशावशिष्यन्ते ते च अष्टाधो लेख्याः । तथा द्वाभ्यां द्वाभ्यां त्रयोदशाङ्कावयवे लुप्ते सति एकादशावशिष्यन्ते तेऽपि दशाधो लेख्यः । तथा एकेन त्रयोदशाङ्कावयवे लुप्ते सति द्वादशावशिष्यन्ते त एकादशाधो लेख्याः । अत्र सर्वत्र पूर्व एव हेतुरुन्नेयः । ___अतश्च मेरावेकगुरुकचतुर्लघुकरूपगुरुस्थानानि प्रस्तारगत्या पञ्चैव भवन्तीति नाग्रे पंक्तिसञ्चारः । एतेन षट्कलप्रस्तारे पञ्चमाष्टमदशमैकादशद्वादशस्थानस्थानि रूपाणि एकगुरुकानि ब्रूयादिति । एवं अङ्कपञ्चमके एकगुरुकमुक्तम् ।
अथ द्विगुरूणि रूपाणि उच्यन्ते-तत्र द्वाभ्यामङ्काभ्यां अन्तिमाङ्कलोपे कृते सति द्विगुरुकं रूपमिति । पञ्चाष्टभिस्त्रयोदशाङ्कावयवे लुप्ते सति भागाभावात् तद्वामावर्त्तस्थैस्त्रिभिस्तदग्रस्थरष्टभिश्च जातैरेकादशभिस्त्रयोदशाङ्कावयवे लुप्ते सति द्वावशिष्येते, द्वयोस्तत्पूर्वत्र छिद्यमानत्वात् । तत्रैकादशाङ्कलोपात् परकलया सह गुरुभावाच्च द्वितीया मारभ्य द्विगुरुकपंक्तिसंचारो भवतीति । तथा च द्वितीयस्थाने प्रथम द्विलघुकं ततो द्विगुरुकं ।। 55 एवमाकारकं रूपमस्तीति पूर्ववदेव पताकाफलमुदेतीति ।
एवमन्यत्रापि प्रस्तारान्तरे गुरुभावोऽवगन्तव्यः । तथा च द्वाभ्यां अष्टभिश्च जातैर्दशभिः त्रयोदशाङ्कावयवे लुप्ते सति त्रयोऽवशिष्यन्ते, ते द्वयधो लेख्याः । तत एकेन अष्टभिश्च जातैर्नवभिः त्रयोदशाङ्कावयवे लुप्ते सति चत्वारोऽवशिष्यन्ते, ते च अधो लेख्याः। ततः पञ्चभिस्त्रिभिश्च जातैरष्टभिस्त्रयोदशांकावयवलोपाद् अवशिष्टः पञ्चमाङ्को वृत्त एवेति न स्थाप्यते । 'अङ्कश्च पूर्वं यः सिद्धस्तमङ्क नैव साधयेदिति ।' वर्णपताकातो अनुवृत्तित्वादिति । ततः पञ्चभिभ्यिां च जातो सप्तभिस्त्रयोदशाङ्कावयवे लुप्ते सति सप्तावशिष्यन्ते, ते तु षडधो लेख्याः। द्वित्रिलोपः पञ्चमात्मको वृत्त एवेति न स्थापनीयः, अनुवृत्तसिद्धयादिनिषिद्धत्वादिति । तत एकेन त्रिभिश्च जातैश्चतुर्भिस्त्रयोदशाङ्कावयवे लुप्ते सति नवावशिष्यन्ते, तेऽपि सप्ताधो लेख्याः । एषु च पूर्ववद् हेतुरुन्नेयः । अतश्च मेरी द्विगुरुक-द्विलघुकरूपस्थानानि प्रस्तारंगत्या षडेव भवतीति नाने पंक्तिसञ्चारः ।