________________
अष्टमो विश्रामः
अथ मेरुगर्भं चतुर्थप्रत्ययस्वरूपामेव मात्राणां पताकामाह - प्रथेत्यादि अर्द्धन श्लोकद्वयेन
-
अथ मात्रापताकापि कथ्यते कवितुष्टये ॥ ६६॥ दत्त्वोद्दिष्टवदङ्कान् वामावर्त्तेन लोपयेदन्त्ये । श्रवशिष्टो वै योऽङ्कस्ततोऽभवत् पंक्तिसञ्चारः ||६७।। एकैकाङ्कस्य लोपे तु ज्ञानमेकगुरोर्भवेत् । द्वित्र्यादीनां विलोपे तु पंक्तिद्वित्र्यादिबोधिनी ॥ ६८ ॥
श्रथेति । मात्रामेरुकथनानन्तरं मात्राणां पताकापि कवितुष्टये - कवीनां सन्तोषार्थं कथ्यते - उच्यत इत्यर्थः ।। ६६ ।
तत्प्रकारमाह
दत्त्वेति । तत्र उद्दिष्टवत् - उद्देशक्रमवत् अङ्कान् - एक द्वि-त्रि- पञ्चाष्ट-त्रयोदशादीन् दत्त्वा - लिखित्वा ततो वामावर्त्तेन - वामभागतः अन्त्ये - त्रयोदशाङ्के लोपयेत् पूर्वमङ्कमिति शेषः । अवशिष्टो वै योऽङ्कः लोपे सतीति शेषः । ततोऽङ्कात् पंक्तिसञ्चारो भवेदिति - जानीयादित्यर्थः ॥६७॥
अपराङ्कलोपेन प्रकारमाह
एकैकाङ्कस्येति । एकैकाङ्कस्य लोपे तु अन्त्य इति शेषः । एकगुरोर्ज्ञानं भवेत् । द्वित्र्यादीनां प्रङ्कानां विलोपे तु पंक्तिः द्वित्र्यादिगुरुबोधिनी भवतीति शेषः ॥ ६८ ॥
अयमर्थः-उद्दिष्टसदृशा श्रङ्काः स्थाप्याः । ते यथा - १, २, ३, ५, ८, १३ । एकः द्वित्रिपञ्चाष्टत्रयोदशाद्याः । ततो वामावर्त्तेन परं लोपयेत् - सर्वान्तिमं अङ्कं तत्पूर्वेणाङ्केन लोपयेदित्यर्थः । तत एकेनाङ्केन अन्तिमाङ्कलोपे कृते सति एकगुरुरूपज्ञानं भवति । द्वाभ्यां अन्तिमाङ्के लोपे सति द्विगुरुरूपज्ञानं भवति । त्रिभिरन्तिमाङ्कलोपे सति त्रिगुरुरूपज्ञानं भवतीत्यादि ज्ञेयम् । एवं कृते मात्रापताका सिद्धयति ।
तत्र षट्कलप्रस्तारे यथा - - उद्दिष्टसमाना अङ्का एकद्वित्रिपञ्चाष्टत्रयोदशरूपाः स्थापनीयाः । ततः सर्वापेक्षया परस्त्रयोदशाङ्कः तत्पूर्वोऽष्टमाङ्कः, तेनाष्टमाङ्कन त्रयोदशाङ्कावयवे लुप्ते सति अवशिष्टाः पञ्च । तस्य पञ्चमाङ्कस्य