________________
७. सप्तम विश्राम
[ ३०९
विषमकले लघवः, कति च गुरवः, कति दोभयत्र प्रस्तारसंख्येति प्रश्ने कृते मात्रामेरुणा प्रत्युत्तरं देयम् ।
तत्र द्विकले समप्रस्तारे एकः सर्वगुरुः, द्वितीयो द्विकलात्मकः सर्वलघुरिति द्विभेदः प्रस्तारसंकेतः ।
त्रिकले विषमप्रस्तारे द्वावेककलकावेकगुरुको चान्ते त्रिकलात्मकः सर्वलघुरिति द्विभेदः प्रस्तारसंकेतः ।
समकले चतुष्कलप्रस्तारे चादौ द्विगुरुः स्थानत्रये च एकगुरुकिलश्चान्ते चतुष्कलात्मकः सर्वलघुरिति पञ्चभेदः प्रस्तारसंकेतः ।
विषमकले पञ्चकलप्रस्तारे त्रयो गणा एकलघवः, चत्वारो गणास्त्रिलघवः, स्थानत्रये द्विगुरुः, स्थानचतुष्टये चैकगुरुरन्ते च पञ्चकलात्मकः सर्वलघुरित्यष्टभेदः प्रस्तारसंकेतः।
समकले षट्कलप्रस्तारे आदौ सर्वगुरुः, षड्गणा द्विकलाः, पञ्चगणाश्चतुकलाः, स्थानषट्के द्विगुरुः, स्थानपञ्चके चैकगुरुरन्ते च षट्कलात्मकः सर्वलघुरिति त्रयोदशभेदः प्रस्तारसङ्केत इति ।
एवमनेन प्रकारक्रमेण यावदित्थं मात्रामेर्वभीष्टमात्राप्रस्तारे लघुगुर्वादिप्रकारप्रक्रिया अवगन्तव्या।
अथवा पूर्वरूपप्रश्ने यावदित्थं यावत्कलकप्रस्तारमात्रामेरु कोष्ठकैविरच्य समकलप्रस्तारे वामतः क्रमेण द्वौ चत्वारः षडष्टावनेन प्रकारेण गुरुज्ञानम् । विषमकलप्रस्तारे तु एक-त्रि-पञ्च-सप्तानेन प्रकारक्रमेण लघुज्ञानम् । अन्ते च सर्वत्र लघुरिति । उभयत्रापि एकः द्वौ त्रयः पञ्चेत्याद्यनया सारण्या दक्षिणतो व्युत्क्रमेण शृङ्खलाबन्धन्यायेन तत्तत्प्रभेदज्ञानम् ।
किञ्चात्र वामभागे सर्वत्रैकैकाङ्कस्थले सर्वगुरुज्ञानं भवतीति विज्ञातव्यमित्युपदेशरहस्यम् । इति शिवम् । सर्वत्राऽत्र च दक्षिणभागे शृङ्खलाबन्धन्यायेन अग्रिमाङ्कपिण्डोत्पत्तिर्भवतीति रहस्यान्तरमिति च ।
श्रीलक्ष्मीनाथभट्टन रायभट्टात्मजन्मना ।
कृतो मेरुरयं मात्राप्रस्तारस्यातिदुर्गमः ॥ अस्य स्वरूपमुदाहरणमत्र द्रष्टव्यम् ।