SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३०८ ] वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार उक्तं मात्रामेरुमुपसंहरति-मात्रामेरुरयमित्यर्द्धन । भो शिष्याः ! पूर्वोक्तफलभागयं मात्रामेरुरिति प्रकारेणोक्तः । यथा, वर्णमेरोः फलं तथा मात्रामेरोरपीत्यर्थः । .. अत्रैतदुक्तं भवति । द्विमात्रादि-निरवधिकमात्रापंक्तिपर्यन्तं स्वस्वप्रस्तारे कति सर्वगुरवः, कत्येकादिगुरवः, कति सर्वलघवः, कति वा प्रस्तारसंख्येति प्रश्ने कृते मात्रामेरुणा प्रत्युत्तरं देयम् ।। तत्र च क्रमेणैव एकैकेनाधिके कोष्ठेनोपलक्षितानां कोष्ठकानां मध्ये द्वे द्वे कोष्ठे अर्थात् पङक्ती समे-सदृशे लिखनीये । तत्र प्रथमे कोष्ठद्वयं । तथा द्वितीयेऽपि कोष्ठद्वयमेव । तृतीये कोष्ठत्रयं । चतुर्थेऽपि कोष्ठत्रयमेव । पञ्चमे चत्वारि । षष्ठेऽपि चत्वार्येव । अत्र कोष्ठपदेन कोष्ठाङ्कः पंक्तिश्च लक्ष्यते, उपचारात् एककलायाः प्रस्तारो नास्तीति प्रथमं न कोष्ठगणनाकल्पना । अतः कोष्ठद्वयात्मिकैव आदो पंक्तिरिति प्रथम इत्युक्तिरिति समञ्जसम् । एवञ्च कोष्ठपंक्तिषु अधोधः क्रमेणाङ्कान् लिखेत् । सर्वत्र च शेषकोष्ठे प्रथमाङ्को देयः । तत्र तत्र च कोष्ठद्वयमध्ये प्रादाबुपरिकोष्ठे च एकरूपोऽङ्को देयः। उपरिस्थितस्योपरिस्थिताङ्काभावाद् उत्सर्गसिद्धकरूपाङ्कन सहितं कृत्वा द्वितीयकोष्ठे द्वितीयाङ्को देयः इति । तृतीयकोष्ठे तु उपरिस्थिताङ्कसहितं कृत्वा अर्थात् शिरःस्थेनाङ्कद्वयेन मिलितं कृत्वा, प्रतस्त्रिरूपोऽङ्कस्समायाति । तथा चार्थात् शिरःस्थेनाङ्कन सह प्रथमो द्वितीयेऽधःस्थे मेलनीयः । ___ यद्वा, प्राद्यद्वयमधो मिलतीयं तु प्रक्रिया। तथा च प्रथमकोष्ठद्वयस्य पूरितत्वात् द्वितीयादारभ्याङ्का दातव्याः। तत्र द्वितीये द्वयं, तृतीये पुनरेक, चतुर्थे त्रयम्, पञ्चमे पुनरेकं, षष्ठे चत्वारि, सप्तमे पुनरेक, अष्टमे पञ्च, नवमे पुनरेक, दशमे षट्, एकादशे पुनरेकं, द्वादशे सप्तमेति प्रक्रियया अङ्का देयाः । एवमाये । तदधःकोष्ठेऽन्तकोष्ठे च पूर्णे मध्यस्थशून्यकोष्ठे चैषा प्रक्रिया पूरणीया । कोष्ठशिर:-कोष्ठस्थाङ्कः परकोष्ठस्थाङ्को द्वावको चैकीकृत्य मध्यकोष्ठे-शून्यकोष्ठे मेलितोऽङ्को देयः । एवं सर्वत्र निरवधिकत्वात् यावदित्थं कोष्ठकं विरच्य मात्रामेरुः पूर्वोक्तरूपः कर्तव्य इति । अयं त्रयोदशमात्रामेरुलिखनऋमप्रकारः श्रीगुरुमुखादवगतः प्रकाशित इत्युपरम्यते । अत्रेदं अनुसन्धेयम् । समविषमरूपा द्वि-द्वि-मात्रादिप्रस्तारमारभ्य निरवधिकमात्राप्रस्तारपर्यन्तं स्वस्वप्रस्तारे कति समकले लघवः, कति च गुरवः, कति
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy