SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सप्तमो विश्रामः अथ तृतीयप्रत्ययस्वरूपमेवात्र [मात्रा]मेरुमाह-एकाधिककोष्ठानामित्यादिना सार्द्धन श्लोकचतुष्टयेन एकाधिककोष्ठानां द्वे पंक्ती समे कार्ये । तासामन्तिमकोष्ठष्वकावं पूर्वभागे तु ॥६२।। एकाङ्कमयुक्पंक्तेः समपंक्तेः पूर्वयुग्माङ्कम् । दद्यादादिमकोष्ठे यावत् पंक्तिप्रपूर्तिः स्यात् ।।६३॥ प्राधाडून तदीयः शीर्षाहूर्वामभागस्थः । उपरिस्थितेन कोष्ठं विषमायां पूरयेत् पंक्तौ ॥६४॥ समपंक्तो कोष्ठानां पूरणमाद्याङ्कमपहाय । उपरिस्थाङ्कस्तदुपरिसंस्थामस्थितरङ्कः ॥६५॥ मात्रामेरुरयं प्रोक्तः पूर्वोक्तफलभागिति । तत्र क्रमादेकैकेनाधिकेन कोष्ठेनोपलक्षितानां कोष्ठानां मध्ये द्वे द्वे पंक्ती समेसमाने कार्ये-लिखनीये इत्यर्थः । तासां-सर्वासां पंक्तीनां अन्तिमकोष्ठेषु एकाyप्रथमाकं यावदित्थं दद्यात् इत्यन्वयः। अथ च सर्वासां पंक्तीनां पूर्वभागे तु अङ्कविन्यास उच्यत इति शेषः ।। ६२ ।। ___ एकाङ्कमिति । तत्रायुक्पंक्त:-विषमपंक्तरादिमकोष्ठे-प्रथमकोष्ठे एकाङ्कप्रथमाङ्क समपंक्तरादिमकोष्ठे-प्रथमकोष्ठे पूर्वयुग्माङ्क एकान्तरितं प्रथमाङ्क यावत् पंक्तिप्रपूति:-पूरणं स्यात्-भवति तावद् दद्यात्-विन्यसेद् इत्यर्थः ।। ६३ ।। तदेवाह आद्याङ्कनेति । ततश्च सर्वत्र विषमायां पङ्क्तो उपरिस्थितेन प्राद्याङ्कनप्रथमाङ्कन वामभागस्थैः तदीयैः शीर्षाङ्कश्च कोष्ठशून्यमिति शेषः प्रपूरयेत्साकं कुर्यादित्यर्थः ॥ ६४ ॥ किञ्च समपङ क्ताविति । समपङ्क्तौ चाद्या अपहाय-त्यक्त्वा उपरिस्थिता:तदुपरिसंस्थैः वामभागस्थितर इंश्च शून्यानां कोष्ठानां पूरणं विधेयमिति शेषः ॥ ६५.॥
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy