________________
३०६ ]
वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार
wwwwwwwwwwwwww
तत्र षोडशभेदाभिन्ने चतुर्वर्णप्रस्तारे कतमस्थाने सर्वगुर्वात्मकं, कतमस्थाने च त्रिगुर्वात्मकं, कतरस्थाने द्विगुर्वात्मकं, कतमस्थाने च एकगुर्वात्मकं, कुत्र वा सर्वलघ्वात्मकं रूपमस्ति, कति वा प्रस्तारसंख्येति प्रश्ने कृते पताकया उत्तरं दातव्यमिति ।
पताकाज्ञानफलमिति श्रीगुरुमुखादवगतो वर्णपताकालिखनप्रकार: प्रकाशित इति दिगुपदर्शनम् । उत्तरत्र च षड्विंशतिवर्णपर्यन्तं पताकाविरचनप्रकार: समुन्नेयः सुधीभिः, ग्रन्थ विस्तरभयान्नेहास्माभिः प्रपञ्च्यत इति शिवम् । ___ अत्र चतुर्वर्णपताकायां तु सिद्धाङ्कान् पिङ्गलोद्योताख्यायां प्राकृतपिङ्गलसूत्रवृत्ती श्रीचन्द्रशेखरः श्लोकाभ्यां संजग्राह । यथा-.
एक-द्वि-त्रि-शराङ्काश्च वेदतु-मुनि-दिक्-शिवाः । कामाष्ट-सूर्य-मनवस्तिथि-क्षोणीशसम्मिताः ॥१॥ सिद्धाङ्काः स्युश्चतुर्वर्णपताकानुक्रमे स्फुटम् ।
पञ्चकोष्ठे लिखेदङ्कान् शेषानेवं लिखेदिति ॥ २॥ शेषान् प्रस्तारान्तरपताकाङ्कान् एवं क्रमात् कोष्ठवर्द्धनपूर्वकक्रमात् लिखेतविन्यसेदित्यर्थः । अत्र अङ्कविन्यासक्रमस्तु श्रीगुरुमुखादेवावगन्तव्य इति सर्व मङ्गलम् ।
चतुर्वर्णपताका यथा प्रत्ययकाख्यः
६
१२
११
इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोवमानमानसचञ्चरीकालङ्कारिकचक्रचूडा. मणि-साहित्यार्णवकर्णधार-छन्दः-शास्त्रपरमाचार्य-श्रीलक्ष्मीनाथभट्टारकविरचिते श्रीवृत्तमौक्तिकवात्तिकदुष्करोद्धारे वर्णपताकाङ्कोद्धारो
नाम षष्ठो विश्रामः ॥६॥