________________
६. षष्ठ विश्राम
[ ३०५
पूर्वाङ्का एकाङ्क एव प्रस्तारादिभूतः सर्वगुरुरूपः, तस्य परे द्वितीयादयः ते च अव्यवहितानतिक्रमेण पूर्यन्ते । तथा च एकेन द्वाभ्यां मिलित्वा व्यङ्को भवति सः द्वितीयाङ्काधस्तात् स्थापनीयः । तत एकेन अष्टभिश्च मिलित्वा नवाङ्को भवति स पञ्चमाङ्काधःस्थात् स्थापनीयः । ततः पंक्तिपरित्यागः । मेरौ त्रिगुरूणां रूपाणां चतुःसंख्यादर्शनादिति भावः । एतेन चतुर्वर्णप्रस्तारे प्रथम रूपं सर्वगुरु ब्रूयात् । द्वि-त्रि-पञ्च-नवस्थानस्थानि चतूरूपाणि त्रिगुरूणि जानीयादिति । एवमङ्कचतुष्टयं साधयित्वा, ततश्चतुरङ्कस्य अधस्तात् पूरितपंक्तिस्था: परामिलिता: षडङ्का देयाः। तत्र प्रथमः पूरित एवेति त्यज्यते । ततो द्वाभ्यां चतुर्भिमिलित्वा षष्ठोऽङ्को ६ भवति, स चतुरङ्काधस्तात् स्थापनीयः । ततः त्रिभिः चतुभिः सम्भूय सप्तमोऽङ्को भवति, स च षडङ्काधस्तात् स्थापनीयः । एवं च पञ्चभिश्चतुर्भिमिलित्वा जायमानो नवाङ्को न स्थापनीयः । 'अङ्कश्च पूर्व यः सिद्धस्तमकं नैव साधयेत्' इत्युक्तत्वात् सिद्धस्य साधनायोगादिति युक्तिसिद्धत्वाच्च इति । ततो द्वाभ्यां अष्टभिमिलित्वा दशाङ्को भवति, स च सप्ताङ्काधस्तात् स्थापनीयः । ततश्च त्रिभिरष्टभिमिलित्वा एकादशाङ्को भवति, स च दशाङ्काधस्तात् स्थापनीयः । ततः पञ्चभिरष्टभिमिलित्वा त्रयोदशाङ्को भवति, स चान्त एकादशाङ्काधस्तात् स्थापनीय इति । ततः पङ्क्तिपरित्यागः । मेरुसंख्यापरिमाणदर्शनादिति पूर्ववद् हेतुरिति भावः । एतेन च चतुर्वर्णप्रस्तारे चतु:षट्-सप्त-एकादश-त्रयोदशस्थानस्थानि षड्पाणि, द्विगुरूणि जानीयादिति । एवमङ्कषट्कं पूर्ववदेव साधयित्वा, ततोऽष्टाङ्काधस्तात् पूरितपक्तिस्थाः पराङ्कमि लताश्चत्वारोऽङ्का देयाः तथा च चतुभिरष्टभिः सम्भूय द्वादशाङ्को भवति, स चाष्टमाङ्काधस्तात् स्थापनीयः । ततः षड्भिरष्टभिश्च संभूय चतुर्दशाङ्को भवति, स तु द्वादशाङ्काधस्तात् स्थापनीयः । ततः सप्तभिरष्टभिश्च संभूय पञ्चदशाङ्को भवति, सोऽपि चतुर्दशाङ्काधस्तात् स्थापनीयः । ततोऽपि पंक्तिपरित्यागः । मेरावेकगुरूणां चतुस्संख्यादर्शनादिति भावः । एतेन चतुर्वर्णप्रस्तारे अष्टमद्वादशचतुर्दश-पञ्चदशस्थानस्थानि रूपाणि एकगुरूणि ब्रूयादिति । एवं अङ्कचतुष्टयं साधयित्वा, ततो दशभिरष्टभिस्तु प्रस्ताराधिकाङ्कसंभवान्नष्टादशाङ्कसञ्चारः । तहि षोडशाङ्कः सर्वलघुरूप: १६ क्वास्तामित्यपेक्षायामष्टमाङ्काग्रे दीयतां सर्वलघुज्ञानार्थमिति सम्प्रदायः । तथा च प्रथमाङ्कचरमाङ्कयोः सदृशन्यायेन अवस्थानं भवतीति ज्ञेयम् ।
पताकाप्रयोजनं तु मेरौ चतुर्वर्णप्रस्तारस्य एकं रूपं चतर्गरूपलक्षितम् । सर्वगुर्वात्मकं चत्वारि त्रिगुरूणि रूपाणि, षड् द्विगुरूणि रूपाणि, चत्वारि एकगुरूणि रूपाणि, एकं सर्वलघ्वात्मक रूपमस्ति ।