________________
षष्ठो विश्रामः
अथ मेरुगी चतुर्थप्रत्ययस्वरूपां वर्णानां पताकामाह-श्लोकत्रयेण दत्त्वेत्यादि।
दत्त्वा पूर्वयुगाङ्कान् पूर्वाके योजयेदपरान् । अङ्कः पूर्व यो वै भृतस्ततः पंक्तिसञ्चारः ॥५६॥ अङ्काः पूर्व भृता येन तमङ्कभरणं त्यजेत् । अङ्कश्च पूर्व यः सिद्धस्तमङ्घ नैव साधयेत् ॥६०॥ प्रस्तारसंख्यया चैवमङ्कविस्तारकल्पना ।
पताका सर्वगुर्वादिवेदिकेयं विशिष्य तु ।। ६१ ॥ तत्र पूर्वयुगाङ्कान् एक-द्वि-चतुरष्टादीन् अङ्कान् प्रथमं दत्त्वा पूर्वाङ्करेकद्वयादिभिरपरान् त्र्यादीन् अङ्कान् योजयेत् बिभृयात् भरणं कुर्यादिति यावत् । किञ्च, य एवाङ्कः पूर्व भृतः-पूरितः, ततस्तस्मादेव अङ्कात् वै-नियमेन पंक्तिसञ्चारः विधेय इति शेषः ॥ ५६ ॥
अङ्का इति । नियमान्तरं च, येन-अङ्केन पूर्वमङ्का भृताः-पूरिताः तमकं पुनर्भरणं त्यजेत्, प्रयोजनाभावात् । किञ्च, अङ्कश्च पूर्वं यः सिद्धस्तमकं पुनर्न साधयेत्-न स्थापयेदित्यर्थः ।। ६०॥
पताकाप्रयोजनमाह
प्रस्तारेति । एवं प्रस्तारसंख्यया अत्राङ्कविस्तारकल्पना भवतीति शेषः । एतादृशी चेयं पताका विशिष्य-विशिष्टां कृत्वा, तु-अवधारणे, सर्वगुर्वादिसर्वलघ्वन्तवेदिका-ज्ञापिका विज्ञातव्यैवेति वाक्यार्थः ॥ ६१ ॥
एवमुक्तं भवति
भो शिष्याः ! उद्दिष्टसदृशा अङ्का देयाः। पूर्वाङ्कः परभरणं कुर्यात्, पूरयितव्यः । पंक्तेः प्रधानाङ्कस्य पश्चात् स्थिताः पूर्वाका भरणं पूरणम् । एकत्राधिकस्य अङ्कस्य प्राप्तौ सा पंक्तिरेव तदङ्कभरणे त्यज्यत इत्यवधेयम् ।
एवञ्च मेरूक्तप्रस्तारसंख्यया पताकाङ्का वर्द्धयितव्याः । तथाहि
चतुर्वर्णप्रस्तारे एक-द्वि-चतुरष्टाङ्का देयाः। यथा-१ । २ । ४ । ८ । अत्र काङ्कस्य पूर्वाङ्कासम्भवात् द्वितीयाङ्कादारभ्य पंक्तिः पूर्यते । तत्र