SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ तृतीयो विश्रामः अथ तथैव क्रमप्राप्तं वर्णानामुद्दिष्टमाह-द्विगुणानिति श्लोकेन । द्विगुणानङ्कान दत्त्वा वर्णोपरि लघुशिरःस्थितानङ्कान् । एकेन पूरयित्वा वर्णोद्दिष्टं विजानीत ॥५५ ।। वर्णानामुपरिप्रसृतानां इति अध्याहार्यम् । तथा च तेषामुपरि द्विगुणानङ्कान् दत्त्वा ततो लघुशिरःस्थितानङ्कान् संयोज्येति शेषः । तथा च तं-संयुक्तं अy एकेनाधिकेन अङ्केन पूरयित्वा-एकीकृत्य वर्णोद्दिष्टं विजानीत शिष्या इति शेषः ॥ ५५ ॥ एवमुक्तं भवति । एकाक्षरादिषड्विंशत्यक्षरावधिप्रस्तारेषु प्रतिप्रस्तारमाद्यभेदे लघ्वाभावादुद्देशः सर्वथा नास्त्येव । अतो द्वितीयभेदादारभ्य उपान्त्यभेदपर्यन्तं उद्देशो भवतीति तत्प्रकारबोधनार्थ शिष्यानभिमुखीकृत्य प्रस्तारा निर्धारपूर्वकं वर्णोद्दिष्टमुच्यते । तथा च एकाक्षरप्रस्तारे भेदद्वयं भवति । तत्र प्रथमभेदस्य उद्देशासम्भवात् । द्वितीयभेदे च एकलघुरूपे द्वितीयाक्षराभावादेकमेवाङ्क तस्मिन् दत्त्वा तदुपरि एकमङ्कमधिकं दत्त्वा द्वितीयभेदमुद्दिशेत् । इत्येकाक्षरप्रस्तारः । द्वयक्षरप्रस्तारे भेदचतुष्टयं ४ भवति । तत्र द्वितीये एको लघुरेकोगुरुरित्येवं भेदे । 5, प्रथमे लघावेकोऽङ्को, द्वितीये गुरौ द्वितीयोऽङ्को दातव्यः, तदनु लघोरुपरि एकमधिकं दत्त्वा द्वितीयंभेदं उद्दिशेत् । एवं तृतीये एको गुरुरेको लघुरित्येवं भेदे 5 ।, प्रथमे गुरावेकोऽङ्को, द्वितीये लघौ द्वितीयोऽङ्कोऽन्त्यस्ततो लघोरुपरि स्थिते द्वितीयेऽङ्के एकमधिकं दत्त्वा तृतीयं भेदमुद्दिशेत् । एवमेव लघुद्वयात्मके ॥ चतुर्थे भेदे प्रथमे लघौ प्रथमाझं दत्त्वा, द्वितीयेऽपि लघौ द्वितीयमकं विधाय तयोरुपरिस्थयोः प्रथमद्वितीयाङ्कयोर्मेलने कृते जाते त्रिके एकावं अधिकं दत्त्वा तस्य चतुष्टयं सम्पाद्य चतुर्थ भेदमुद्दिशेदिति । इति द्वयक्षरप्रस्तारः । त्र्यक्षरप्रस्तारे तु भेदाष्टकं ८ भवति । तत्र एको लघुः द्वौ गुरू चेति गणः कुत्रास्तीति प्रश्ने कृते पृष्ठं गणं । 55 लिखित्वा तत्र प्रथमे लघौ प्रथमाको दातव्यः, द्वितीये गुरौ तद्विगुणो द्वितीयोऽङ्को दातव्यः, तृतीये गुरौ तद्विगुणश्चतुर्थाऽङ्को दातव्यः । अत्र सर्वत्र प्रथमादिपदेन वर्णो लक्ष्यते, ततो लघोरुपरि योऽङ्कस्तस्मिन्नेकमधिकं दत्त्वा तेन सह एकीकृत्य व्यङ्को भवति तस्मात् द्वितीयो यगणाख्याक्षरप्रस्तारे गणो भवतीत्येवं वेदितव्यम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy