________________
२९६ ]
वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार
त्रयोदशाकारा देयाः । यथा- 55s तत्र शेषाते त्रयोदशात्मनि १३ गुरुशीर्षस्था ये अङ्का एकत्र्यष्टरूपास्तैर्जातो द्वादशाङ्को लोप्यस्तथा च लुप्ते तस्मिन् प्रथमो गणस्तादृशो भवतीति वेदितव्यम् ।
अथ च त्रयोदशस्थाने कीदृशो गणः ? इति प्रश्ने, पूर्व [व]देव लघूनामुपर्यंङ्कान् दत्त्वा शेषाङ्के त्रयोदशात्मनि पृष्ठाङ्कलोपे अवशिष्टाङ्काभावान्न गुरुकल्पना । अतो लघव एवावशिष्यन्ते इति ।।।।।।
चतुर्दशादिप्रश्ने चाङ्कलोपासम्भवादसत्यत्वमात्रं वाच्यम् । तदधिकप्रस्ताराभावादित्थं च मात्राप्रस्तारे सर्वत्रैव शेषाङ्कसमसंख्यागणा भवन्तीत्यपि निश्चीयते । इति गुरुमुखादवगतार्थो लिखित इति शिवम् ।
मात्राणां नष्टम्
।
। । । द्वितीयः प्रत्ययः
इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसचञ्चरीकालङ्कारिकचक्रचूडामणि-साहित्यार्णवकर्णधार-छन्दःशास्त्रपरमाचार्य-श्रीलक्ष्मीनाथभट्टारकरविरचिते श्रीवृत्तमौक्तिकवात्तिकदुष्करोद्धारे मात्राप्रस्तारनष्टगणसमुद्धारो नाम द्वितीयो विश्रामः ॥२॥