________________
.द्वितीयो विश्रामः
अथ मात्राणामदृष्टं रूपं नष्टं द्वितीयप्रत्ययस्वरूपम् । तच्च षट्कलप्रस्तारे प्रस्तारान्तरे वा अमुकस्थाने कीदृशं इति प्रश्नोत्तरमध्यर्द्धन श्लोकद्वयेनाह
अथ मात्राणां नष्टं यददृष्टं पृच्छयते रूपम् ॥ ५२ ॥ यत्कलकप्रस्तारो लघवः कार्याश्च तावन्तः । दत्त्वा पूर्वयुगाङ्कान् पृष्ठाङ्कलोपयेवन्त्ये ॥ ५३ ।। उर्वरितोर्वरितानामङ्कानां यत्र लभ्यते भागः ।
परमात्रां च गृहीत्वा स एव गुरुतामुपागच्छेत् ॥ ५४॥ अथेति । पूर्वाद्धं अवतारिकयैव व्याख्यातप्रायम् ।। ५२ ॥
यत्कलकप्रस्तारः कृतः तत्कलकप्रस्तारकृते तावन्त एव लघवः कार्याः । चकारोऽवधारणार्थः । तत्र च दत्त्वा पूर्वयुगाङ्कान् एक-द्वि-त्रि-पञ्चाष्ट-त्रयोदशादीन् । यथा- ।।।।।। ततः पृष्ठावं अन्त्ये-शेषे लोपयेत् ।। ५३ ।।
एवं चोवंरितोर्वरितानां अवशिष्टानामङ्कानां यत्र यत्राङ्के भागो लभ्यते स स एवाङ्कः शेषाङ्के लोपयितुं शक्यते । सः पुनस्तदधः स्थितकलं परमात्रा च गृहीत्वा गुरुतामुपागच्छेत्-गुरुर्भवतीत्यर्थः । गुरुत्वे चाऽधःस्थितकलाया अपि संग्रहोऽर्थाद् भवतीति । अन्यथा लघुगुरुरित्येवं ब्रूयादिति ॥ ५४ ॥
अनेन व्याख्यानेनाव्युत्पन्नतमः शिष्यो बोधयितु न शक्यत इति स्फुटीकृत्य सोदाहरणं विलिख्यते । यथा
षट्कलप्रस्तारे द्वितीयस्थाने कीदृशो गणः ? इति प्रश्ने, पूर्वोक्ताङ्कसहिताः लघुरूपाः षट्कलाः स्थापनीयाः । पूर्वयुगलसदृशा अङ्का देयाः। ततः शेषाङ्के त्रयोदशे १३ पृष्ठाङ्कलोपे द्वितीयाङ्क २ लोपे सति एकादशावशिष्टा ११ भवन्ति । तत्राव्यवहिताष्टलोपे शेषकलाद्वयेन एको गुरुर्भवति । अवशिष्टाङ्कः त्रयं भवति । तत्र च पञ्चलोपाशक्यत्वात् परमात्रां गृहीत्वा गुरुर्भवतीत्युक्तत्वाच्च त्रिलोपे ३ तृतीयचतुर्थाभ्यामपरो गुरुर्भवति । शेषाङ्को नावशिष्यत इति । प्रथमं लघुद्वयमेव । तथा चादी लघुद्वयमनन्तरं गुरुद्वयमित्येतादृशो ।। 5 5 द्वितीयो गणो भवतीत्यर्थः । एवमन्यत्रापि।
यद्यप्याद्यन्तयोस्सन्देहाभावस्तथापि प्रथमे कीदृशो गणः ? इति प्रश्ने, गुरुत्रयात्मकं प्रथमं गणं लिखित्वा तत्रोपर्यधः क्रमेण पूर्वयुगाङ्का एक-द्वि-त्रि-पञ्चाष्ट