________________
२६८ ]
वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार
एवं चात्रैव प्रथमं लघुद्वयं ततो गुरुरित्येवं गणः ।। 5 कस्मिन् स्थानेऽस्तीति प्रश्ने कृते तदाकारं गणं १, २ लिखित्वा प्रथमे लघावेकाङ्कं दत्त्वा १, द्वितीयेऽपि तद्विगुणं द्वयकं २ विधाय, तृतीये गुरौ तद्विगुणं चतुर्थमङ्क कृत्वा ४, ततो लघोरुपरिस्थयोः प्रथमद्वितीयाङ्कयोः संयोगकृतत्रयं भवति ३, तस्मिन्नेके धिके दत्ते सति चतुरङ्को भवति ४ । अतश्चतुर्थस्सगणाख्यस्त्र्यक्षरप्रस्तारे गणो भवतीति ज्ञेयम् । एवमन्यत्र । इति त्र्यक्षरप्रस्तारः ।
अथ चतुरक्षरप्रस्तारे षोडश भेदा १६ भवन्ति । तत्र द्वौ गुरू, एको लघुरेको गुरुश्चेत्येवंरूपो गणः कुत्रास्तीति प्रश्ने कृते, तं पृष्ठं गणं लिखित्वा ऽ ऽ । ऽ तत्र प्रथमगुरोरुपरि प्रथमाङ्को १ देयः, ततो द्विगुणान् द्विगुणान् अङ्कान् दत्त्वा, ततश्च द्वितीयगुरोरुपरि द्वितीयोऽङ्को देयः, तृतीयो लघौ चतुरङ्कः, चतुर्थो गुरावष्टमाङ्को देयः ८ । इति द्वैगुण्यम् । ततो लघोरुपरिश्चतुर्थोऽङ्कस्तं एकेन पूरयित्वा तस्य पञ्चत्वं विधाय तत्समानाङ्कस्थाने स गणोऽस्तीति विज्ञातव्यम् । इत्युद्दिष्टं वर्णप्रस्तारे प्रथमप्रत्ययस्वरूपं विजानीत शिष्या इति ।
अत्र सर्वत्र गणशब्देन तत्तद्देदो लक्ष्यते । तथा चात्रैव प्रथमं लघुत्रयमनन्तरं एको गुरुरित्येवमाकारको गणः कुत्र स्थानेऽस्तीति प्रश्ने कृते तदाकारं गणं लिखित्वा ।।। तत्र प्रथमलघोरुपरि प्रथमाकं दत्त्वा, ततोऽपि द्विगुणान् द्विगुणान् अङ्कान् दत्त्वा, तदनु द्वितीयलघोरुपरि तद्विगुणं द्वितीयमङ्क विलिख्य, तृतीये लघौ तद्विगुणं चतुरङ्क विधाय, चतुर्थे गुरावष्टमाङ्क तद्विगुणं दत्त्वा, एवं द्विगुणत्वं सम्पाद्यते । लघुशिरःस्थितान् एक-द्वि-चतुरङ्कान् एकीकृत्य जातं सप्ताङ्क ७, एकेन ग्रन्थिस्थेन पूरयित्वा तस्याष्टत्वं विधाय तत्समानाङ्कस्थाने स गणोऽस्तीति ज्ञेयम् । इत्युद्दिष्टं विस्पष्टं विजानीत विज्ञाः । इति चतुरक्षरप्रस्तारः ।
किञ्च
विपरीतप्रस्तारोद्दिष्टे क्रियमाणे लघुशिरःस्थितान् अङ्कान् इत्यत्र गुरुशिरःस्थितान् इति पाठस्तत्रोद्दिष्टप्रकारः सुलभः । एवञ्च सर्वप्रत्ययेषु पाठविपर्ययः कार्य इत्युपदिश्यते । एवञ्च ते सर्वेऽपि प्रत्यया विपरीता भवन्तीति रहस्यान्तरम् । एवमन्येष्वपि प्रस्तारेषु तत्तद्गणस्थानावस्थानं बोद्धव्यमिति विशदबुद्धिभिः । इति संक्षेपः । इति सर्वमवदातम् ।
एकाक्षरप्रस्तारो यथा