SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ छन्दःशास्त्रपरमाचार्यश्रीलक्ष्मीनाथभट्टप्रणोतो वृत्तमौक्तिक-वात्तिक-दुष्करोद्धारः प्रथमो विश्रामः श्रीगणेशाय नमः प्रणम्य जगदाधारं विश्वरूपिणमीश्वरम् । श्रीचन्द्रशेखरकृते वात्तिके वृत्तमौक्तिके ।। १ ।। अन्तःसारं समालोच्य नष्टोद्दिष्टादिदुष्करम् । श्रीलक्ष्मीनाथभट्टेन सुकरीक्रियतेतराम् ॥ २ ॥ अथानन्तरं छान्दसिकपरीक्षार्थ कौतुकार्थञ्च मात्राणामुद्दिष्टमुच्यते । तत्र त्रयोदशविभेदभिन्नेषु षट्कलप्रस्तारगणेषु इदं कातिम रूपम् इति लिखित्वा · पृष्ठं रूपमुद्दिष्टं प्रथमप्रत्ययस्वरूपं, तत्प्रकारमाह सार्द्धन श्लोकेन । दद्यात् पूर्वयुगाङ्कान लघोरुपरि गस्य तूभयतः । अन्त्याङ्क गुरुशीर्षस्थितान् विलुम्पेवथाङ्कांश्च ॥५१॥ उर्वरितैश्च तथाङ्क त्रिोद्दिष्टं विजानीयात् । दद्यादिति । तस्मिन् लिखिते रूपे पूर्वयुगाङ्कान् दद्यात् । तत्र च लघोरुपर्येव गुरोस्तु उभयतः-उपर्यधश्चेत्यर्थः । अथ पश्चादन्त्याङ्के-शेषाङ्के गुरुशीर्षस्थितान् अङ्कान् विलुम्पेत् । तथा कृते सति उर्वरितैश्च अङ्कः मात्राणामुद्दिष्टं जानीयात् । एतदुक्त भवति । षट्कलप्रस्तारे तावदेको गुरुः, द्वौ लघू, एको गुरुश्च एवंरूपो गण: 5॥ कुत्र स्थानेऽस्तीति प्रश्ने कृते, तदाकारं गणं लिखित्वा पूर्वयुगेन समानाः क्रमादङ्का दातव्याः २ तः १३ [त]त्रादिकलायां प्रथमोऽङ्को देयः, ततः पूर्वयुगाङ्काभावादुत्सर्गसिद्धो द्वितीयोऽङ्कस्तदधः। तदनन्तरं पूर्वाङ्कद्वयमेकीकृत्य तत्संख्यकोऽङ्कोऽग्रे देयः । एवं च पूर्वयुगसमानाङ्कास्त्रिपञ्चादिय इति पूर्वयुगक्रमार्थः । अत्र गुरोरुपर्यधश्चाङ्को देयो द्विकलत्वात् । एतच्च गुरुशीर्षपदाल्लभ्यते। एवं तेषु अङ्केषु अन्त्याङ्के-चरमाङ्के त्रयोदशरूपे १३ यावन्तो गुरुशीर्षस्थितान् अङ्कांस्तान् विलुम्पेत् । ते च नव तथा च त्रयोदशात्मनि चरमेऽङ्के नवाले लुप्ते सति उर्वरितैरङ्कश्चतुर्भिश्चतुर्थं स्थानं लिखित्वा तत्समानाङ्कस्थानको यद्गण इति जानीयात् । तदेतन्मात्राणामुद्दिष्टम् । उद्दिष्टस्य गणस्य स्थानमात्रानयनादिति भावः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy