________________
प०८-81
ग्रन्थकृतप्रशस्ति
[ २६१
याते दिवं सुतनये विनयोपपन्ने, श्रीचन्द्रशेखरकवौ किल तत्प्रबन्धः । विच्छेदमाप भुवि तद्वचसैव सार्द्ध,
पूर्णीकृतश्च स हि जीवनहेतवेऽस्य ।। ८ ।। श्रीवृत्तमौक्तिकमिदं लक्ष्मीनाथेन पूरितं यत्नात् । जीयादाचन्द्रार्क जीवातुर्जीवलोकस्य ॥ ६ ॥
श्री: इत्यालङ्कारिकचऋचूडामणि-छन्दःशास्त्र'परमाचार्य-सकलोपनिषद्रहस्यार्णवकर्णधार-श्रीलक्ष्मीनाथभट्टात्मज-कवि चन्द्रशेखरभट्टविरचिते श्रीवृत्तमौक्तिके पिङ्गलवात्तिके वर्णवृत्ताख्यो द्वितीयः परिच्छेवः ।।
श्रीः समाप्तश्चायं वात्तिके द्वितीयः खण्डः ।
श्रीकृष्णायानन्तशक्तये नमः । श्रीरस्तु । समाप्तमिदं श्रीवृत्तमौक्तिकं नाम पिङ्गलवात्तिकम् ।
शुभमस्तु । संवत् १६९० समये श्रावनवदि ११ रवौ शुभदिने लिखितं शुभस्थाने अर्गलपुरनगरे लालमनिमिश्रेण । शुभम् । इदं प्रन्थसंख्या ३८५०॥
+
१. ख. छन्दःशास्त्रे।
२. ख. कविशेखरश्री। ३. ख. द्वितीयखण्डः ।