SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ १. प्रथम विश्राम [ २६३ एवं चाष्टभेदविभिन्नो पञ्चकलप्रस्तारे-द्वौ लघू, एको गुरुः, एको लघुश्च इत्येवंरूपो गणः ।।5। कुत्र स्थानेऽ स्तीति प्रश्ने, प्रथमलघोरुपरि प्रथमाङ्कस्तदनु द्वितीयलघोरुपरि द्वितीयाङ्कस्ततो गुरोरुपरि तृतीयाङ्कस्तदधः पञ्चमाङ्कस्तदनु लघोरुपरि अष्टमाङ्कश्च देयः। अतोऽन्त्याङ्के-अष्टमाङ्के ८ गुरुशिरोङ्कस्तृतीयोऽङ्को ३ लोप्योऽवशिष्टः पञ्चमाङ्को भवति । तस्मात् पञ्चमो गणस्तादृशो भवतीति एवं जानीयादिति । तथा च पञ्चभेदे चतुष्कलप्रस्तारे जगणः ।। कुत्रास्तीति प्रश्ने, प्रथमलघोरुपरि प्रथमाङ्कस्तदनु गुरोरुपरि द्वितीयाङ्कस्तदधस्तृतीयाङ्कः शेषो लघोरुपरि पञ्चमाङ्को देयः । अतः शेषे पञ्चमाङ्के ५ गुरुशिरोऽङ्को द्वितीयो लोप्यः । अवशिष्टस्तृतीयाऽङ्को भवति । तस्मात् तृतीयस्थाने जगणो वर्तत इति जानीयादिति । ___ एवञ्च सप्ताष्टकलादिकेषु समस्तेषु प्रस्तारेषु प्रथमे शेषे च गणे शकैव नावतरीतर्तीति । द्वितीयस्थानादारभ्य उपान्त्यस्थानपर्यन्तं प्रश्ने कृते प्रोक्तप्रकारेण उद्दिष्टं बोद्धव्यमतिविशुद्धबुद्धिभिरित्यास्तां विस्तारेण इत्युपरम्यते । इति शिवम् । श्रीनागराजाय नमः प्रस्तारविस्तारणकौतुकेन प्रस्तारयन्तं पतगाधिराजम् । मध्येसमुद्रं प्रविशन्तमन्तर्भजामि हेतुं भुजगाधिराजम् ॥ अथ मात्रा-वर्णोद्दिष्टौ वक्तव्ये तत्र प्रस्तारमन्तरेणोद्दिष्टादीनामशक्यकथनत्वात् समस्तप्रस्तारस्य वसुधावलयेऽप्यसमावेशात् केचन प्रस्ताराः प्रस्तुतोपयोगिनो लिख्यन्ते। एवं अन्येपि षड्विंशत्यक्षरपर्यन्तं प्रस्ताराः बोद्धव्याः सुबुद्धिभिः । द्विकलप्रस्तारो यथा 5 १ चतुष्कलप्रस्तारो यथा ॥ त्रिकलप्रस्तारो यथा 15 51 55 ।।5 IS 5।। د سه
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy