________________
प० १८०-१८८ ]
१२. अनुक्रमणी - प्रकरण
ततस्तु विरुदावल्याः सम्पूर्ण नवमं
विरुदावली प्रकरणं
लक्षणं कृतम् । वृत्तमौक्तिके ।। १८० ।।
अथ खण्डावली तत्र पूर्वं ततस्तु मञ्जरी नाम भवेत् खण्डावलीप्रकरणं दशमं परिकीर्तितम् । प्रथानयोस्तु दोषाणां निरूपणमुदीरितम् ॥ १८२ ॥
१. ख. नेत्रद्वयं ।
[ २८६
तामरसं भवेत् । खण्डावली त्विह ।। १८१ ।।
एकादशं प्रकरणमिदमुक्तमतिस्फुटम् । ततः खण्डद्वयस्यापि प्रोक्ताऽनुक्रमणी क्रमात् ॥ १८३ ॥ एतत् प्रकररणं चात्र द्वादशं परिकीर्तितम् । वृत्तानि यत्र गण्यन्ते तथा प्रकरणानि च ।। १८४ ।। पूर्वखण्डे षडेवात्र प्रोक्तं प्रकरणं स्फुटम् । द्वितीयखण्डे चाप्यत्र रविसंख्यमुदीरितम् ॥ १८५ ॥ अवान्तरं प्रकरणं चतुः संख्यं प्रकीर्तितम् । सम्भूय चात्र गदितं रसेन्दुमितमुत्तमम् ।। १८६ ॥ उभयोः खण्डयोश्चापि सम्भूयैव प्रकाशितम् । द्वाविंशति' प्रकरणं रुचिरं वृत्तमौक्तिके ।। १८७ ।। मात्सर्यमुत्सार्य मुदा सदा सहृदयैरिदम् । अन्तर्मुखैः
प्रकरणं विज्ञैरालोक्यतां मम ।। १८८ ॥
इति खण्डद्वयानुक्रमणीप्रकरणं द्वादशम् ।१२।