________________
२८८]
वृत्त मौक्तिक - द्वितीयखण्ड
अन्यत्र वीरभद्रः स्यात् ततः शाकः प्रकीर्तितः । मातङ्गखेलितं पश्चादथोत्पलमुदीरितम् ॥ १६६ ॥
ततो गुणरतिः प्रोक्ता ततः कल्पद्रुमो भवेत् । कन्दलश्चाथ कथितस्ततः स्यादपराजितम् ।। १६७ ।। नर्त्तनं तु ततः प्रोक्तं तरत्पूर्वं समस्तकम् । वेष्टनाख्यं चण्डवृत्तं ततश्चास्खलितं मतम् ॥ १६८ ॥ अथ पल्लवितं पश्चात् समग्रं तुरगस्तथा । पङ्केरुहं ततः प्रोक्तं सितकञ्जमतः परम् ।। १६६ ॥ पाण्डूत्पलं ततश्च स्यादिन्दीवरमतः परम् ।
अरुणाम्भोरुहं पश्चादथ फुल्लाम्बुजं मतम् ।। १७० ।। चम्पकं तु ततः प्रोक्तं वञ्जुलं तदनन्तरम् । ततः कुन्दं समाख्यातमथो
बकुलभासुरम् ।। १७१ ॥ परिकीर्तितम् ।
अनन्तरं तु बकुलमङ्गलं मञ्जय कोरकश्चाथ गुच्छः कुसुममेव च ।। १७२ ।। अवान्तरमिदं चापि प्रोक्तं प्रकरणं त्विह । श्रथ त्रिभङ्गी कलिका दण्डकाख्या प्रकीर्तिता ॥ १७३ ॥ विदग्धपूर्वा सम्पूर्णा त्रिभङ्गी कलिका ततः ।
ततस्तु मिश्रकलिका कथिता वृत्तमौक्तिके ।। १७४ ।। अवान्तरं प्रकरणं तृतीयमतिसुन्दरम् । इत्थं सलक्षणं चण्डवृत्तप्रकरणं कृतम् ।। १७५ ।। ततः साधारणमतं चण्डवृत्तमिहोदितम् । साधारणमतं चैकदेशतः प्रोक्तमत्र हि ॥ १७६ ॥
[ प० १६६ - १७ε
अवान्तरप्रकरणं साधारणमते स्थितम् । चतुर्थ विरुदावल्यां' विज्ञेयं कविपण्डितैः ।। १७७ ।। ततस्त्वत्रैव कलिका ज्ञेया सप्तविभक्तिकी । अनन्तरं चाक्षमयीकलिका कथिता त्विह ।। १७८ ॥ ततस्तु सर्वलघुकं कलिकाद्वयमीरितम् । ततश्च विरुदानां तु युगपल्लक्षणं कृतम् ।। १७६ ।।
१. ख. विरुदावल्यो ।
२. क. कलिका * ।