SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ १० १५३ - १६५ ] तत्र १२. अनुक्रमणी - प्रकरण द्विविधं नलिनाख्यं च ततः स्याद् दक्षिणान्तिका । अथोत्तरान्तिका पश्चात् [ प्राच्यवृत्तिरुदीरिता ।। १५३ ।। उदीच्यवृत्तिस्तत्पश्चात् प्रवृत्तकमतः परम् । अथापरान्तिका पश्चा] 'च्चारुहासिन्युदीरिता ।। १५४ ॥ वैतालीयं प्रकरणं षष्ठमेतदुदीरितम् । यतिप्रकरणं चाथ सप्तमं परिकीर्त्यते ।। १५५ ।। यतीनां घटनं यत्र सोदाहरणमीरितम् । अथ द्यप्रकरणमष्टमं वृत्तमौक्तिके ।। १५६ ॥ नानाविधानि गद्यानि गद्यन्ते यत्र लक्षणैः । तत्र तु प्रथमं शुद्ध ं चूर्णकं गद्यमुच्यते ।। १५७ ।। श्रथाऽऽविद्धं चूर्णकं तु ललितं चूर्णकं ततः । ततस्तूत्कलिकाप्रायं वृत्तगन्धि ततः स्मृतम् ॥ १५८ ॥ ग्रन्थान्तरमतं चात्र लक्षितं गद्यलक्षणे । इति गद्यप्रकरणमष्टमं परिकीर्तितम् ।। १५६ । विरुदावलीप्रकरणं नवमं चाथ कथ्यते । तत्र द्विगाद्या च त्रिभङ्गयन्ता कलिका नवधा पुरा ।। १६० ।। ततस्त्रिभङ्गी कलिका नोधा साऽपि प्रकीर्तिता । विदधाद् या द्विपाद्यन्ता सापि षोढा ततः स्मृता ॥ १६१ ॥ मुग्धादिका तरुण्यन्ता मध्ये मध्या चतुर्विधा । अवान्तरप्रकरणं कलिकायाः प्रकीर्तितम् ।। १६२ ।। अथातो व्यापकं चण्डवृत्तं विरुदमीरितम् । सलक्षणं तथा साधारणं चेति द्विधैव तत् ॥ १६३ ॥ ततोऽस्य परिभाषा स्यात् तद्भेदानां व्यवस्थितिः । पुरुषोत्तमाख्यं प्रथमं ततस्तु तिलकं भवेत् ।। १६४ ॥ अच्युतस्तु ततः प्रोक्तो वद्धितस्तदनन्तरम् । ततो रणः समाख्यातस्ततः स्याद् वीरचण्डकम् ।। १६५ । १. [-] कोष्ठगतोंशो क. प्रतौ नोपलभ्यते । २-२. 'नवघा सा' इति सुष्ठु । [ २८७
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy