SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ २८६ ] वृत्तमौक्तिक - द्वितीयखण्ड [५० १३६ - १५२ आदी पिपीडिका तत्र ततस्तु करभः स्मृतः । अनन्तरं च पणवं माला स्यात्तदनन्तरम् ॥ १३६ ।। द्वितीयाऽथ त्रिभङ्गी स्यात् शालूरं तदनन्तरम् । इति प्रकीर्णकं नाम द्वितीयं वृत्तमौक्तिके ॥ १४० ।। प्रोक्त प्रकरणं चाथ तृतीयमिदमुच्यते । दण्डकानां प्रकरणं क्रमप्राप्तं मनोरमम् ॥ १४१ ।। चण्डवृष्टिप्रयातस्तु प्रथमं परिकीर्तितः । ततः प्रचितकश्चाथ ततोऽप्यर्णादयो मताः॥ १४२ ।। ततस्तु सर्वतोभद्रस्ततश्चाऽशोकमञ्जरी। कुसुमस्तबकश्चाथ मत्तमातङ्ग एव च ।। १४३ ।। अनङ्गशेखरश्चेति तृतीयं परिकीर्तितम् । अथार्द्ध समकं नाम चतुर्थ परिकीर्त्यते ॥ १४४ ।। पुष्पिताना भवेत्तत्र प्रथमं वृत्तमुत्तमम् । ततश्चैवोपचित्रं स्यादथ वेगवती भवेत् ।। १४५ ॥ हरिणाऽनन्तरं चापि प्लुता संपरिकीर्तिता। ततश्चापरवक्त्रं स्यात् सुन्दरी च ततो मता ॥ १४६ ।। अथ भद्रविराट् वृत्तं ततः केतुमती स्थिता। ततस्तु वाङ्मतीवृत्तमथ स्यात् षट्पदावली ।। १४७ ॥ इत्यर्द्धसमकं नाम तुर्य प्रकरणं मतम् । अथोच्यते प्रकरणं विषमं वृत्तमौक्तिके ॥ १४८ ॥ पञ्चमं यत्र पूर्व स्याद् उद्गता वृत्तमुत्तमम् । ततस्तु सौरभं वृत्तं ललितं तदनन्तरम् ॥ १४६ ॥ अथ भावस्ततो वक्त्रं पथ्यावृत्तमतः स्मृतम् । ततस्त्वानुष्टुभं वृत्तमष्टाक्षरतया कृतम् ।। १५० ।। इत्थं विषमवृत्तानां प्रोक्तं प्रकरणं त्विह । अथ षष्ठं प्रकरणं वैतालीयं प्रकीयते ॥ १५१ ॥ वैतालीयं प्रथमतस्तत्र वृत्तं निगद्यते । ततश्चौपच्छन्दसिकमापातलिकमेव च ।। १५२ ।।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy