SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ५० १२४-१३८ ] १२. अनुक्रमणी - प्रकरण [ २८५ www अथ तत्त्वाक्षरे पूर्व रामानन्दोऽथ दुर्मिला । किरीटं तु ततः प्रोक्तं ततस्तन्वी प्रकीर्तिता ॥ १२४ ॥ ततस्तु माधवीवृत्तं तरलान्नयनं ततः । अत्र प्रस्तारभेदेन भेदाः षड्भूमियुग्मकैः ।। १२५ ।। सप्तर्षिमुनिशास्त्रेन्दु (१६७७७२१६)मिताः स्युरपरे पुनः । गुरूपदेशमार्गेण सूचनीयाः मनीषिभिः ।। १२६ ॥ अथ पञ्चाधिके विंशत्यक्षरे पूर्वमुच्यते । कामानन्दस्ततः क्रौञ्चपदा मल्ली ततो भवेत् ।। १२७ ॥ ततो मणिगणं वृत्तमिति वृत्तचतुष्टयम् । प्रस्तारगत्या चात्रापि भेदा नेत्राग्निसिन्धुभिः ।। १२८ ।। वेदपञ्चेषुवह्निभ्यामपि (३३५५४४३२) स्युरपरेपि च । छन्दःशास्त्रोक्तमार्गेण सूचनीयाः स्वबुद्धितः ।। १२६ ।। षड्भिरभ्यधिके विशत्यक्षरेऽप्यथ गद्यते । श्रीगोविन्दानन्दसंज्ञं वृत्तमत्यन्तसुन्दरम् ।। १३० ।। ततो भुजङ्गपूर्व तु विजृम्भितमिति स्मृतम् । अपवाहस्ततो वृत्तं मागधी तदनन्तरम् ।। १३१ ॥ ततश्चान्त्यं भवेद् वृत्तं कमलाऽनन्तरं दलम् । प्रस्तारगत्या चावत्या भेदाः सम्यग् विभाविताः ।। १३२ ।। वेदशास्त्रवसुद्वन्द्वखेन्दश्वरससूचिताः। (६७१०८८६४)। प्रस्तार्य शास्त्रमार्गेणापरे सूच्याः स्वबुद्धितः ॥ १३३ ।। एकाक्षरादिषड्विंशत्यक्षरावधि कीर्तितम् । यथालाभं वर्णवृत्तमन्यदूह्यं महात्मभिः ।। १३४ ।। रसलोचनमुन्यश्वचन्द्रनेत्राब्धिवह्निभिः ।। शशिना योजितैरङ्कः(१३४२१७७२६)पिण्डसंख्या भवेदिह ॥ १३५ ।। भेदेष्वेतेषु चाद्यन्तसहितः भेदकल्पनैः । पञ्चषष्ठ्यधिकं नेत्रशतकं (२६५) वृत्तमीरितम् ।। १३६ ।। द्वितीये खण्डके वर्णवृत्ते सवृत्तमौक्तिके । वृत्तानुक्रमणी रूपमा प्रकरणं त्विदम् ।। १३७ ।। प्रकीर्णकप्रकरणं द्वितीयमथ कथ्यते । प्रस्तारोत्तीर्णवृत्तानि कानिचित्तत्र चक्ष्महे ।। १३८ ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy