________________
२८४ ]
वृत्तमौक्तिक - द्वितीयखण्ड
वसुवेदखचन्द्रैश्च (१०४८५७६) मिताः स्युश्चापरे' बुधैः । प्रस्तार्यं बुद्धया संसूच्या छन्दः शास्त्रविशारदैः ॥ ११० ॥ अथैकविंशत्यक्षरेऽस्मिन् ब्रह्मानन्दादनन्तरम् । स्रग्धरा मञ्जरी च स्यान्नरेन्द्रस्तदनन्तरम् ॥ १११ ॥ ततस्तु सरसीवृत्तं क्वचित् सुरतरुर्भवेत् । सिद्धकं चान्यतः प्रोक्तं रुचिरा तदनन्तरम् ।। ११२ ।। ततश्च स्यान्निरुपम तिलकं वृत्तमन्त्यगम् ।
प्रस्तारगत्या चात्रापि भेदा:
नेत्रेषुचन्द्रकैः ।। ११३ ।।
मुनिरन्ध्र खनेत्रैश्च ( २०६७१५२) विज्ञेयाः कविशेखरः । प्रस्तार्यान्यत्समुन्नेयं भेदजातं सुबुद्धिभिः ।। ११४ ॥
[प० ११०-१२३
अथ प्रथमतो
विद्यानन्दवृत्तमुदीरितम् ।
द्वाविंशत्यक्षरे हंसीवृत्तं स्यात्तदनन्तरम् । ततस्तु मदिरावृत्तं मन्द्रकं तदनन्तरम् ।। ११५ ।।
तदेव यतिभेदेन
शिखरं
परिकीर्तितम् ।
मदालसमनन्तरम् ॥ ११६ ॥
ततः स्यादच्युतं वृत्तं ततस्तरुवरं वृत्तमन्त्यं भवति सुन्दरम् । प्रस्तारगत्यैवात्रापि भेदा वेदखवह्निभिः ।। ११७ ॥ वेदग्रहेन्दुवेदैश्च (४१९४३०४) भवन्तीति विनिश्चितम् । तथैवान्येपि ये भेदास्ते प्रस्तार्य स्वबुद्धितः ॥ ११८ ॥ सूचनीयाः कविवरैः छन्दः शास्त्रविशारदैः । अथात्र त्र्यधिके विंशत्यक्षरे पूर्वमुच्यते ॥ ११६ ॥ दिव्यानन्दः सर्वगुरुस्ततः सुन्दरिका भवेत् । ततस्तु यतिभेदेन सैव पद्मावती भवेत् ॥ १२० ॥ ततोऽद्रितनया प्रोक्ता सैवाश्वललितं क्वचित् । ततस्तु मालतीवृत्तं मल्लिका स्यादनन्तरम् ।। १२१ ।। मत्ता क्रीडं ततः प्रोक्तं कनकाद्वलयं ततः । प्रस्तारगतितो भेदास्त्रयोविंशाक्षरे स्थिताः ।। १२२ । वसुव्योमरसक्ष्माभृद्वस्वग्निवसुभिर्मिता: ( ८३८८६०८) । शेषभेदाः सुधीभिस्तु सूच्याः प्रस्तार्य शास्त्रतः ।। १२३ ।।
१. क. चाक्षरे ।