________________
प०१३ - २६ ]
१२. अनुक्रमणी - प्रकरण
[ २७७
प्रिया ततः समाख्याता यमकं तदनन्तरम् । प्रस्तारगत्या चैवाऽत्र भेदा द्वात्रिंशदीरिताः (३२) ॥१३॥ षडक्षरेऽपि पूर्व तु शेषाख्यं वृत्तमीरितम् । ततः स्यात्तिलका वृत्तं विमोहं तदनन्तरम् ।। १४ ॥ विजोहे 'त्यन्यतः ख्यातं चतुरंसमतः परम् । पिङ्गले चउरंसेति स्त्रीलिङ्गं परिकीर्तितम् ॥ १५ ॥ मन्थानं च ततः प्रोक्तं मन्थानेत्यन्यतो भवेत् । शङ्खनारी ततः प्रोक्ता सोमराजीति चान्यतः ॥१६॥ स्यात् सुमालतिका चात्र मालतीति च पिङ्गले । तनुमध्या ततः प्रोक्ता ततो दमनकं भवेत् ॥ १७ ॥ प्रस्तारगत्या चाप्यत्र भेदा वेदरसर्मताः (६४) । अथ सप्ताक्षरे पूर्व शीर्षाख्यं वृत्तमीरितम् ।। १८॥ ततः समानिका वृत्तं ततोऽपि च सुवासकम् । करहञ्चि ततः प्रोक्वं कुमारललिता ततः ॥ १६ ॥ ततो मधुमती प्रोक्ता मदलेखा ततः स्मृता । ततो वृत्तं तु कुसुमततिः स्यादतिसुन्दरम् ॥२०॥ प्रस्तारगतिभेदेन वसुनेत्रात्मजेरिता' (१२८) । भेदाः सप्ताक्षरस्यान्या ऊह्याः प्रस्तार्य पण्डितैः ॥ २१ ॥ अथ वस्वक्षरे पूर्व विद्युन्माला विराजते। ततः प्रमाणिका ज्ञेया मल्लिका तदनन्तरम् ।। २२ ॥ तुङ्गावृत्तं ततः प्रोक्तं कमलं तदनन्तरम् । माणवकक्रीडितकं . ततश्चित्रपदा मता ॥ २३ ॥ ततोऽनुष्टुप् समाख्याता जलदं च ततः स्मृतम् । अत्र प्रस्तारगत्यैव रसबाणयुगैर्मताः (२५६) ॥ २४ ॥ भेदा वस्वक्षरे शेषाः सूचनीयाः सुबुद्धिभिः । नवाक्षरेऽथ पूर्व स्याद् रूपाम्राला मनोरमा ॥ २५ ॥ ततो महालक्ष्मिका स्यात् सारङ्गं तदनन्तरम् । सारङ्गिका पिङ्गले तु पाइन्तं तदनन्तरम् ।। २६ ॥
१. ख. विड्गोहे । २. क. वसुनेत्रात्मतेडिताः।