________________
२७६ ]
अथ
वृत्त मौक्तिक - द्वितीयखण्ड
द्वितीयखण्डानुक्रमणी
द्वितीयखण्डस्य वर्णवृत्तस्य च क्रमात् । वृत्तानुक्रमरणी स्पष्टा क्रियते वृत्तमौक्तिके ॥ १ ॥ आरभ्येकाक्षरं वृत्तं षड्वंशत्यक्षरावषि । तत्तत्प्रस्तारगत्याऽत्र वृत्तानुक्रमणी स्थिता ॥ २॥ तत्र श्रीनामकं वृत्तं प्रथमं परिकीत्तितम् । तत इः कथितं वृत्तं द्वो भेदावत्र कीर्तितो ॥ ३ ॥ एकाक्षरे, द्वचक्षरे तु पूर्व कामस्ततो मही । ततः सारं मधुश्चेति भेदाश्चत्वार एव हि ॥ ४ ॥ त्र्यक्षरे चात्र ताली स्यान्नारी चापि शशी ततः ।
तत्र
[ प्र०१-१२
ततः प्रिया समाख्याता रमणः स्यादनन्तरम् ॥ ५ ॥ पञ्चालश्च मृगेन्द्रश्च मन्दरश्च ततः स्मृतः । कमलं चेति चात्र स्युरष्टौ भेदाः प्रकीर्तिताः ॥ ६ ॥ अथातो. द्विगुणा भेदाश्चतुर्वर्णादिषु स्थिताः । यथासम्भवमेतेषामाद्यान्तानुक्रमात् स्फुटम् ॥ ७ ॥ वृत्तानुक्रमणी सेयमङ्कसंकेततः कृता । प्रतिप्रस्तारविस्तारं षड्विंशत्यक्षरावधि ।। ८ ।।
चतुर्वर्णप्रभेदेषु तीर्णा कन्याऽपि चान्यतः । धार ततस्तु विख्याता नगाणी च ततः परम् ॥ ६ ॥ शुभं चेति समाख्यातामत्र भेदचतुष्टयम् । शेषभेदा न संप्रोक्ता ग्रन्थविस्तरशङ्कया ॥ १० ॥ प्रस्तारगत्या ते भेदाः षोडशैव व्यवस्थिताः । सुधीभिरुहाः प्रस्तार्य यथाशास्त्रमशेषतः ।। ११ ।। अथ पञ्चाक्षरे' पूर्वं सम्मोहा वृत्तमीरितम् । हारी ततः समाख्याता ततो हंसः प्रकीर्तितः ॥ १२ ॥
१. ख. भेदः क्रमात् स्थिता । २. ख. घारी । ३. क. पञ्चाक्षरः ।