________________
२७४
वृत्तमौक्तिक - द्वितीयखण्ड
[५० १३ - २७
[ प० १२ ।
गाथोदाहरणं पश्चात् सप्रभेद सलक्षणम् । विगाथा च तथा ज्ञेया. ततो गाहू प्रकीर्तिता ॥ १३ ॥ प्रथोद्गाथा गाहिनी च सिंहिनी च ततः परम् । स्कन्धकं चापि कथितं सप्रभेदं सलक्षणम् ।। १४ ॥ इति गाथाप्रकरणं प्रथमं वृत्तमौक्तिके। द्वितीयं षट्पदस्याथ द्विपथा तत्र संस्थिता ॥ १५॥ सलक्षणा सप्रभेदा रसिका स्यात् ततः परम् । अथ रोला समाख्याता गन्धाणा स्यात् ततः परम् ।। १६ ।। चौपैया च ततः प्रोक्ता ततो घत्ता प्रकीर्तिता। धत्तानन्दमतः काव्यं सोल्लालं सप्रभेदकम् ॥ १७ ॥ षट्पदं च ततः प्रोक्तं सप्रभेदमतः परम् । काव्यषट्पदयोश्चापि दोषाः सम्यङ निरूपिताः ॥ १८ ॥ प्राकृते संस्कृते चापि दोषाः कविसुखावहाः । द्वितीयं षट्पदस्यैतत् प्रोक्तं प्रकरणं त्विह ।। १६ ।। अथ रड्डाप्रकरणं तृतीयं परिकीर्त्यते । तत्र पज्झटिकाछन्दोऽडिल्लाछन्दस्ततः परम् ।। २० ।। ततस्तु पादाकुलकं चौबोला - छन्द एव च। रड्डाछन्दस्ततः प्रोक्तं भेदाः सप्तैव चास्य तु ॥ २१ ॥ रड्डाप्रकरणं चैव तृतीयमिह कीर्तितम् । पद्मावतीप्रकरणं चतुर्थमथ कथ्यते ।। २२॥ तत्र पद्मावती पूर्व ततः कुण्डलिका भवेत् । गगनाङ्गं ततः प्रोक्तं द्विपदी च ततः परम् ॥ २३ ।। ततस्तु अल्लणा-छन्दः खजा-छन्दस्ततः परम् । शिखाछन्दस्ततश्च स्यात् मालाछन्दस्ततो भवेत् ।। २४ ।। ततस्तु चुलिमाला स्यात् सोरठा तदनन्तरम् । हाकलीमधुभारश्चाऽऽभीरश्च स्यादनन्तरम् ।। २५ ।। मथ दण्डकला प्रोक्ता ततः कामकला भवेत् । रुचिराख्यं ततश्छन्दो दीपकश्च ततः स्मृतम् ॥ २६ ॥ सिंहावलोकितं छन्दस्ततश्च स्यात् प्लवङ्गमः । प्रथ लीलावतीछन्दो हरिमीतं ततः स्मृतम् ॥ २७॥