SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ द्वादशं अनुक्रमणी - प्रकरणम् प्रथमखण्डानुक्रमणी रविकर-पशुपति-पिङ्गल-शम्भुग्रन्थान् विलोक्य निबन्धान् । सद्वत्तमौक्तिकमिदं चक्रे श्रीचन्द्रशेखरः सुकविः ॥१॥ अथाऽभिधीयते चाऽत्राऽनुक्रमो वृत्तमौक्तिके । अत्र खण्डद्वयं प्रोक्त मात्रा-वर्णात्मकं पृथक् ॥ २ ॥ तत्र मात्रावृत्तखण्डे प्रथमेऽनुक्रमः स्फुटम् ।। प्रोच्यते यत्र विज्ञाते समूहालम्बनात्मकम् ॥ ३ ॥ ज्ञानं भवेदखण्डस्य' खण्डस्य' छन्दसोऽपि च । मङ्गलाचरणं पूर्व ततो गुरु लघुस्थितिः ॥ ४ ॥ तयोरुदाहृतिं पश्चात् तद् विकल्पस्य कल्पनम् । काव्यलक्षणवलक्ष्ये अनिष्टफलवेदनम् ॥ ५॥ गणव्यवस्थामात्राणां प्रस्तारद्वयलक्षणम् । मात्रागणानां नामानि कथितानि ततः स्फुटम् ।। ६ ।। वर्णवृत्तगणानां च लक्षणं स्यात् ततः परम् । .. तद्देवता च तन्मैत्री तत्फलं चाप्यनुक्रमात् ।। ७ ।। मात्रोद्दिष्टं च तत्पश्चात्तन्नष्टस्याथ कीर्तनम् । वर्णोद्दिष्टं ततो ज्ञेयं वर्णनष्टमतः परम् ।। ८ ।। वर्णमेरुश्च तत्पश्चात् तत्पताका प्रकोर्तिता । मात्रामेरुश्च तत्पश्चात् तत्पताका प्रकीर्तिता ॥ ६॥ . ततो वृत्तद्वयस्थस्य गुरोर्ज्ञानं लघोरपि । , वर्णस्य मर्कटी पश्चात् मात्रायाश्चापि मर्कटी ॥१०॥ तयोः फलं च कथितं षट्प्रकारं समासतः । ततस्त्वेकाक्षरादेश्च षड्विंशत्यक्षरावधेः ॥११॥ प्रस्तारस्यापि संख्याऽत्र. पिण्डीभूता प्रकीर्तिता। ततो गाथादिभेदानां कलासंख्या प्रकीर्तिता ॥ १२ ॥ १. ख. भवेदखण्डलस्य । २. ख. 'खण्डस्य' नास्ति।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy