________________
२७० ]
वृत्तमौक्तिक - द्वितीयखण्ड
[प०३
wM
जय नीपावलीवास जय वेणुसुधाप्रिय । जय वल्लभसौभाग्य जय ब्रह्मरसायन ।
धीर ! पशुपललनावल्लीवृन्दैः श्रितः करपल्लव
विपुलपुलकश्रेणि'स्फीतस्फुरत्कुसुमोद्गमः । तपनतनयातीरे तीरे तमालतरुप्रभः,
व लयतु मम क्षेमं कश्चिन्नवः कमलेक्षणम् ॥१॥ इति तामरसं नाम खण्डावली ॥१॥
२. अथ मञ्जरी खण्डावली नरेन्द्रजिता यत्र रचिताः स्युस्तुरङ्गमाः।
आद्यन्तपदसंयुक्ता मञ्जरी सा निगद्यते ॥ ३ ।। [व्या०] अस्यार्थः- यत्र-यस्यां मजा नरेन्द्रण-जगणेन वर्जिताः-रहिताः तुरङ्गमाः चतुर्विधाश्चतुष्कला रचिता यदि स्युः । किञ्च, आद्यन्तयोः पद्याभ्यां संयुक्ता चेद् भवति तदा सा मञ्जरीति नामा प्रसिद्धा खण्डावली निगद्यते छान्दसिकरिति शेषः ॥३॥
यथा
पिशङ्गसिचयाञ्चितं चटुलनचिकीचारकं', चमत्कृतदृगञ्चलैश्चलुकिता वलानिश्चयम् । चलद्रुचिरचन्द्रिकाभरणचुम्बिचूडाञ्चलं, तमालदलमेचकं सुचिरमाविरास्तां महः ॥
देव ! जय लीलासुधासिन्धो ! जय शीलादिमन्दिरम् । जय राधैकसौहाई जय कन्दपंविभ्रम ।।
वीर ! जय जय जम्भारि भुजस्तम्भाकलिताहम्भा-वाहिनजम्भा-' मुदवष्टम्भा-पहसररम्भाश्रय निर्दम्भा-सादितरम्भालघुकुचकुम्भा-दरपरिरम्भानिधुवनपुम्भा-वप्रारम्भा
१. ख. श्रेणी। २. ख. कमलेक्षणः। ३. ख. वारकं । ४. ख. चुलुकिता। ५. ख. मन्दिरः। ६. वाहितजृम्भा। ७. ख. पहसरंभा।