________________
२६६ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[प० १२ - १८
अथ सर्वासु कलिकासु स्थितानां विरुदानां युगपदेव लक्षणमुच्यते
वसुषट्पंक्तिरविभिर्मनुभिश्चापि सर्वतः ।।
कलिकासु कविः कुर्याद् विरुदानां तु कल्पनम् ।। १२ ।। व्या०] अस्यार्थः--सर्वासु कलिकासु वस्वादिभिः पञ्चभिः संख्यासंकेतश्चकारोक्तरपि कविविरुदानां कल्पनं कुर्यात् । तथा हि-कस्यांश्चित् कलिकायामष्टकलिकं विरुदं, कस्यांश्चित् षट्कलिक विरुदं, अपरस्यां दशकलिक विरुदं, अन्यस्याञ्च द्वादशकलिक विरुदं, कस्यांश्चित् कलिकायां चतुर्दशकलिक विरुदम् । कुत्रापि चकारोपदिष्टं च विरुदत्रितयमिति क्रमेण सर्वत्र विरुदकल्पनं कविना कार्यमित्युपदिश्यते ॥१२॥ किञ्च
धीर-वीरादिसंबुद्धया कलिका विरुदादिकम् । देव-भूपतितत्तुल्यवर्णनेषु प्रयोजयेत् ॥ १३॥ संस्कृतप्राकृतश्रव्यैः शौर्यवीर्यदयादिभिः ।
कीर्तिप्रतापप्राधान्यैः कुर्वीत कलिकादिकम् ॥ १४ ।। __[व्या०] सुगमम् ॥१३, १४॥ अपि च
गुणालङ्कारसहितं सरसं रीतिसंयुतम् ।
मैन्यानुप्राससच्छब्दाडम्बरं' जीवितं द्वयोः ।। १५ ।। [व्या०] द्वयोः-कलिकाविरुदयोरित्यर्थः ॥१५॥
कलिकाश्लोकविरुदत्रिक त्रिंशत्रिकावधि ।
पञ्चत्रिकोवं विरुदावली कविभिरिष्यते ॥ १६ ॥ [व्या०] अस्यार्थः-अस्यां कारिकायां सम्पूर्णा विरुदावली लक्षयति–विरुदावली तावत् कलिकाश्लोकविरुदै स्त्रिभिः सम्पद्यते । तत्र कलिकाश्लोकविरुदमिति त्रिकं, पञ्चत्रिकोध्वं-पञ्चत्रिकं, पञ्चदश तदूध्वं एतदारभ्य इत्यर्थः । कियदवधीत्यपेक्षायामुच्यते-त्रिंशत्रिकावधि-त्रयस्त्रिशावधिश्चेत् क्रियते तदा प्रखण्डा विरुदावली भवति । एतादृशी विरुदावली कविभिरिष्यते कत्तुं यत्यत इत्यर्थः । यथा श्रुतव्याख्याने तु महती विरुदावली स्यात् । तथा च पञ्चदशादारभ्य त्रिशत्रिकं नवतिस्सम्पद्यते, तत्पर्यन्तं सति महती विरुदावली भवतीति । संकोचात्तथा व्याख्यातमस्माभिरिति सर्व समञ्जसम् ॥१६॥
क्वचित्तु कलिकास्थाने केवलं गद्यमिष्यते । पदमाद्यन्तयोराशी: प्रधानं सुमनोहरम् ॥ १७ ॥ त्रिचतुःपञ्चकलिकाः श्लोकास्तावन्त एव हि ।
१. ख. छन्वाडम्बरं।