________________
२६४ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[ ५० १० - ११
कर्णे कल्पितकणिकः कलिकया कामायितः कान्तिभिः, कान्तानां किलकिञ्चितं किसलयं कीलालधिः कीतिभिः । कुर्वन् कूर्दनकानि केशरितया कैशोरवान् कोटिशः, कोपीकोकुलकंसकुष्टकृतिकः' कृष्णः क्रियात् कांक्षितम् ।
सौरीतटचर गौरीव्रतपरगौरीपटहर चौरीकृतकर ।
धीर! प्रेमोरुहट्टहिण्डक कक्खटसुभटेन्द्रकण्ठकुट्टाक । कुरु कौंकुमपट्टाम्बर भट्टारक ताण्डवं हृदि मे ॥
इति अक्षमयी कलिका ॥२॥
३. अथ सर्वलघुककलिका अथ सर्वलघुकं कलिकाद्वयं युगपदेव लक्ष्यते । तत्र
नगणर्पञ्चभिर्यत्र लध्वन्तर्वापि तैः पुनः । क्रमेण पञ्चदशभिर्वर्णैः षोडशभिस्तथा ॥ १० ॥ प्रस्तारद्वयमन्त्यं स्याल्लघुभिः सकलाक्षरैः ।
तत्सर्वलघुकं प्रोक्तं कलिकाद्वयमुत्तमम् ॥ ११ ॥ व्या०) अस्यायमर्थः-यत्र पञ्चभिः-पञ्चसंख्याकैर्नगणैः-त्रिलघुकैर्गणः पदं यत्र, चपुनः लघ्वन्तर्वापि तैरेव पञ्चभिर्नगणैः-क्रमेण पञ्चदशभिर्वर्णः षोडशभिर्वा पदं भवति । वा शब्देन सप्तदशाक्षरमपि पदं कर्त्तव्यम् । एतदूध्वं तु न कर्त्तव्यमेवेत्युपदेशः । न च सप्तदशादूर्ध्वमित्यत्रव निषेधस्य उक्तत्वात् । स्वेच्छया कलान्यासस्तु सप्तदशवर्णपर्यन्तमेव साधारणमते चमत्कारकारी नैतदूर्ध्वमिति, प्रस्तारद्वयेपि सर्वलघुभिस्समस्तैर्वर्णर्यदन्त्यं प्रस्तारद्वयं भवति तत् सर्वलघुकमुत्तमं कलिकाद्वयं भवतीत्यर्थः । तत्र पञ्चदशाक्षरी सर्वलघुका कलिका यथागोपस्त्रीविद्युदालीवलयितवपुष नन्दगोपादिकेकि
व्यूहानन्दैकहेतु दनुजशतभयोद्दामदावाग्निशत्रुम् । ईषद्धास्याम्बुधारावितरणभृतसद्बन्धुचेतस्तडागं,
चित्तं श्रीकृष्ण मेऽद्य श्रय शरणमहो दुःखदाहोपशान्त्यै ।
चरणचलनहतजठरशकटक रजकदलन वशगतपरकटक
१. गोवि. कोपीकोकुरकंसकष्टकृतिकः। २. क. बहि। ३. गोवि. पूर्णपद्य नास्ति । ४. गोवि. जरठ कटक ।