SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प० १ - - ६ ] & विरुदावली - प्रकरण १. श्रथ साप्तविभक्तिकी कलिका स्तुतिर्विधीयते विष्णोः सप्तभिस्तु विभक्तिभिः । यत्र सा कलिका सद्भिर्ज्ञेया साप्तविभक्तिकी ॥ १ ॥ अथोच्यते विभक्तीनां लक्षणं कविसम्मतम् । तत्तद्गणोपनिहितं यथाशास्त्रमतिस्फुटम् ॥ २ ॥ भसो तू घटितौ यत्र प्रथमा सा प्रकीर्तिता । नाभ्यां तु द्वितीया स्यात् तृतीया ननसा लघुः ॥ ३ ॥ त्रिभिस्तैस्तु चतुर्थी स्यात् यत्र यो पञ्चमी तु सा । ताभ्यां तु षष्ठीविज्ञेया यत्र सौ सप्तमी तु सा ॥ ४ ॥ विहाय प्रथमा ज्ञेया सर्वाः साधारणे मते । स्थितास्तु गणसाम्येन स्वेच्छयैव यतः १ कलाः ।। ५ ।। उदाहरणमेतासां क्रमतो वृत्तमौक्तिके । कथ्यते कविसन्तोषहेतवे* हरिकीर्तनः ॥ ६ ॥ [व्या०] सुलभार्थास्तु कारिका इति न व्याख्यायन्ते । क्रमेणोदाहरणानि, यथा यः स्थिरकरुण - स्तर्जितवरुणः । तर्पितजनकः सम्मदजनकः ॥ १ ॥ प्रणतविमायं जगुरनपायम् । घनरुचिकायं सुकृतिजना यम् ।। २ ।। सुजनकलितकथनेन प्रबलदनुजमथनेन । प्रणयिषु रतमभयेन प्रकटरतिषु किल येन ॥ ३ ॥ यस्मै परिध्वस्तदुष्टाय चक्रुः स्पृहां माल्यदुष्टाय * । दिव्याः स्त्रियः केलितुष्टाय कन्दर्परङ्गेण पुष्टाय ॥ ४ ॥ धृतोत्साहपूराद् द्युतिक्षिप्तसूरात् । यतोऽरिविंदूराद् भयं प्राप शूरात् ॥ ५ ॥ यस्योज्वलाङ्गस्य सञ्चार्यपाङ्गस्य । वेणुर्ललामस्य हस्तेऽभिरामस्य ॥ ६ ॥ स्मितविस्फुरितेऽजनि यत्र हिते । रतिरुल्लसिते सदृशां ललिते ॥ ७ ॥ इति सप्तविभक्तयः । * * चिह्नान्तर्गतोयमंशो नास्ति ख. प्रतौ । १. ख. यता । [ २६१ २. गोवि. जुष्टाय ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy